________________
जुलाई - २०१४
रूपे श्रीरैवतकाचलालङ्कार-श्रीनेमिस्तवमयतच्चैत्यचित्रान्तर्हदे मण्डपभारपट्टद्वयस्तम्भषट्कबन्धनामा पञ्चमस्तरङ्गः । चैत्यचि० महाहदे च मूलतश्च[१८] ।
संनम्रश्रीश! सन्देहनाशने त्वं समर्थवाक् । संयमीद्धसहा जीया नश्वराऽसम्मदारत! ॥(?) ॥११॥
४५ शिखरमूलमध्ये श्रीनेमीश्वरेति नामगर्भं कमलम् ॥ सुरेशसेव्य! व्यपनीतमोह! हर्यक्ष! दुर्वाररतीशनागे । जयाश्रित! प्रप्रहतामिताघ! घनाम्भसार्वेततपोवनागे (?) ॥१२॥ ४६
शिखरे गर्भमध्ये शकु(शुक)नाशनासकाऽन्धारिकाबन्धः ॥ दृष्टे त्वदास्ये घनकायकान्ते! कान्ते भवेद्यः प्रमदो जनानाम् । नानार्तिकीर्ण[र्णेषु?] भवेषु तेन ते न च(भ्र)मन्त्यम्बुद! मोहदावे ॥१३॥ ४७
शिखरस्य मूले देवाद्दक्षिणतः पङ्क्तित्रयेण प्रथमदेवकुलिकाबन्धः ॥ तावन्मोहविषं नेमे! मेधां हन्ति मनस्विनः । वचनामृतमापीतं तव यावदनेन न ॥१४||
४८ तत्रैव पङ्क्तिद्वयेन द्वितीयदेवकुलिकाबन्धः ॥ रणेऽपि चरणेऽमाय! यत्त्वया वैरिणो जिताः । द्विधा क्षमाभृतस्तात! ततस्त्वां सर्वतो नताः ॥१५॥
४९ तत्रैव देवदेवाद्वामत: पक्तिद्वयेन तृतीयदेवकुलिकाबन्धः ॥ भवत्पदध्याननतिप्रभावात् पापं विनश्यत्यखिलं जनानाम् । - विद्धं करौधैर्दिननायकस्य ततं यथा सन्तमसं क्षणेन ॥१६॥ ५० तत्रैव वामतः पङ्क्तित्रयेण चतुर्थदेवकुलिकाबन्धः ॥ .
एवं सम्पूर्णः प्रथमः स्थ(स्त)रः ॥ ... यो लक्षसंख्यं किल संख्यदक्षः क्षणेन वैलक्ष्ययुतं चकार । . नरेन्द्रवृन्दं समदं ददातु तुष्टिं स सर्वेष्टकृतेरकामः ॥१७॥ ५१
. शिखरे मध्यमदेवकुलिकात्रयरूपे द्वितीयस्थ(स्त)रे प्रथमा देवकुलिका ॥
कल्पद्रुमो नेप्सितशर्मदाता ताताऽमराणां मणिरप्यनिष्टः । तव प्रभावाम्बुनिधेः पुरोऽत्र त्रपास्पदं कामघटोऽपि नित्यम् ॥१८॥ ५२
तत्रैव द्वितीया देवकुलिका ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org