________________
जुलाई - २०१४
२३ जगन्मोददं दर्शनं नो जिनेदं द(?)मी(मा)प्यते ते महापुण्यहीनैः । सदा तेन न प्रार्थयेऽन्यत्ततोऽहं हताज्ञानपापांच! नैपुण्यपीनैः(?) ॥१२॥ ९४
शिखरगर्भेऽन्धारिकाबन्धः ॥ जना ये स्मरन्ति प्रभो! भावसारं जगत्तात! ते नाममन्त्रं क्षितारम् । महानन्दशर्मश्रियां ते विलासं लभन्ते विधायाऽऽशु कर्मप्रवासम् ॥१३॥ ९५
शिखरमूले देवाद्दक्षिणतोऽर्द्धाभ्यां देवकुलिकाद्वयबन्धः ॥ श्रये त्वां जगन्नायकाऽमन्दमोदं समग्रेहितश्रीलताकन्दक[न्दम्?] । भवन्तं श्रिता यद्भवापायभीता भवन्त्येव कैवल्यलक्ष्मीपरीताः ॥१४॥ ९६
। तथैव वामतो देवकुलिके ॥ प्राणदाने तदा पारापते त्वयेतिषे(?) यथा । मयि पाल्ये कृपापात्रे यतस्वाऽद्य ऋषे! तथा ॥१५॥ मण्डपः ॥ ९७ अनन्तदर्शनज्ञाननताखण्डलमण्डल! । जगद्ध्येयपदाम्भोज! जय मञ्जुलमङ्गल! ॥१६॥ तापोत्तीर्णसुवर्णाभ! भग्नभावारिविक्रम! । जय कर्ममयस्फीततमोभाररविक्रम! ॥१७॥ तत्त्वविद्यामहाम्नायं यर्मिस्ते वचनं विना । • मोहधूर्तस्य कुर्वीततमां को वञ्चनं हि न ॥१८॥
१०० . द्वितीयस्थ(स्त)रे देवादक्षिणत आरभ्य त्रिभिर्मध्यमदेवकुलिकात्रयं क्रमात् ।। त्वया यो विजिग्ये भवभ्रान्तिभीति तिरस्कुर्वता लीलयाऽपीश! मोहः । परेऽस्याऽपि देवा गताः प्रेष्यभावं . . . बभा(प्रभो)ऽतस्त्वमेवाऽW! एवं ममोहः ॥१९॥ १०१
शिखरे सर्वोपरितनभागे मध्यपङ्क्ती ॥ त्वमेवाऽऽश्रितानां प्रभुर्मुक्त! नूनं नताऽमर्त्य! कर्तुं भवभ्रान्त्यपोहम् । निबुध्येति वाञ्छन् महानन्दसातं तवैवांऽहियुग्मं शरण्य! श्रयेऽहम् ॥२०॥ २
।
तथैव बहिःपती ॥ - एवं द्वाभ्यां सामलसारकशिखरोपरितनभागबन्धः ॥ अमानमानसं स्तोत्रे तव वीततमोभर! । रति मम परध्ये (?) लभतां वै भवारसम् ॥२१॥ कलशः ॥ ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org