SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ अनन्तैर्भवैर्धाम्यतो गोचरत्वं त्वमागाद् दृशोर्मेऽद्य भाग्येन तात! । ततो रक्ष मां दीनमेनं सुननं नतानन्दन! ध्यानलीनं घनं ते ॥२२॥ ध्वजः ॥ ४ एवमानुतगुणो मयका श्रीदेवसुन्दरगुरूदितभक्त्या । ज्ञानदर्शनसुसंयमशुद्धि त्वं विधेहि मम शान्तिजिनेन्द्र! ॥२३॥ श्रीशान्ति जिनराजमित्यमलधीर्यः स्तौति भूपावलीशक्रालीमुनिसुन्दरस्तुतिपदं चित्रविचित्रक्रमैः । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२४॥ ६५ ६ इति श्रीशान्तिनाथजिनस्तवनं तच्चैत्यबन्धेन भट्टारकश्रीमुनिसुन्दरसूरिकृतम् ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि० श्रीमहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जय,यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वरश्रीपत्तनादिनगरवर्णनश्रोतसि चैत्यषट्कचित्रमहाहूदे स्वस्वदेव० श्रीशान्तिजिनचैत्यचित्रान्तर्रदे श्रीशान्तिजिनस्तुतिमये द्वितीयतृतीयौ युगपत्तरङ्गौ ॥ महाहूदे च द्वादशत्रयोदशौ मूलतश्च ॥ सम्पूर्णश्चाऽयं श्रीशान्तिस्तवमयः श्रीशान्तिचैत्यचित्रान्तर्हृदः ॥ ___ अथ श्रीरैवतचैत्यबन्धचित्रनामाऽन्तर्हृदः श्रीरैवंतालङ्कारश्रीनेमिस्तवमयः प्रस्तूयते । तथाहि - श्रीनेमि प्राप्तमोहारिजयश्रीकं जिनं स्तुवे । . नेतारं जगतां स्फीतमोदाद् रैवतदैवतम् ॥१॥ रैवतगिरीन्द्रबन्धचित्रे पूर्वार्द्धनोपत्यकाबन्धः । उत्तरार्द्धन च प्रथमपङ्क्ती पूर्वस्यां प्रथमशिखरबन्धः ॥ मोक्षाप्तिः सुलभा तेषां श्रीनेमे! शुद्धधीजुषाम् । श्रीनन्दनजितं त्वां ये स्तुवन्त्यर्कं तमश्चये ॥२॥ अर्द्धाभ्यां तत्रैव मध्यतृतीयशिखरयोर्बन्धः ॥ वत्मि(च्मि?) तानुत्तमान् देव! तेषां कुर्वे च संस्तवम् । जुषन्ते ये जगत्तातं त्वां ददानं समीहितम् ॥३॥ रैवतगिरिबन्धचित्रे द्वितीयपङ्क्तावर्धाभ्यां शिखरद्वयबन्धः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy