SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ एवं चतुर्थ्यां सामलसारकशिखरोपरितनभागबन्धः ॥ भगवन्! गरिमाम्भोधे! विधेय(हि?) विधिसङ्गमम् । मतं ततशमं देहि यतः स्यां गतदुस्तमाः ॥२५॥ कलशः ॥ ७८ यस्याऽऽज्ञया नैव विना शिवश्री-र्लभ्याऽप्यलभ्यैव तया बुधैः स्यात् । स कान्तसातं विततं तनोतु, युगादिदेवो भविभद्रकर्ता ॥२६॥ ७९ आनन्दसम्पदं पुंसां दत्ते दृष्टोऽपि यो जिनः । स विश्वानतपादो नः करोतु शमशं वशम् ॥२७॥ ध्वजबन्धः ॥ ८० एवं स्तुतः प्रथमतीर्थपतिस्त्रिलोकी-नेत्रोत्सवः सकलमङ्गलकेलिसद्म । विश्वाचनीयविमलाचलमौलि[मौलि]र्देयान्ममाप्यमलकेवलबोधिलक्ष्मीम् ॥२८॥ श्री शत्रुञ्जयमौलिमण्डनमिति श्रीमद्युगादिप्रभु शक्रालीमुनिसुन्दरस्तुतिपदं यः स्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२९॥ ८२ - इति श्रीशत्रुञ्जययुगादिदेवस्तवनं तच्चैत्यबन्धेन ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि० श्रीदेवसुन्दरसूरिपदपद्मसौभाग्याणवानुगामिन्यां श्रीमहा० द्वितीये श्रीगूर्जरावतीदेश-तन्नरेश्वर-श्रीपत्तननगरवर्णनादिश्रोतसि चैत्यषट्कचित्रमहाहूदे स्वस्वदेव० श्रीशत्रुञ्जयालङ्कारश्रीयुगादिजिनचैत्यचित्रान्तर्हदे श्रीयुगादिजिनस्तुतिमये तृतीयचतुर्थे(ौँ) या(ला?)घवमागप(?) (युगप?)त्तरङ्गौ । पूर्वतरङ्गद्वयस्य प्रौढत्वादेते त्रयो लघवः । एवमन्यत्रापि ज्ञेयम् । महाहूदे च नवमदशमौ मूलतश्च तरङ्गः(गौ) ॥ सम्पूर्णश्चाऽयं श्रीशत्रुञ्जयालङ्कारश्रीयुगादिजिनस्तवरूपस्तच्चैत्यचित्रान्तर्हृदो द्वितीयः । मूलतश्च [९-१०] ॥ अथ श्रीशान्तिनाथचैत्यनामान्तर्हृदः श्रीशान्तिजिनस्तुतिमयः प्रस्तूयते ॥ तथाहि - जयश्रीजिनानन्तसद्भूतरङ्गद्गुणश्रीनिधे! मुक्तिलक्ष्मीद्धरङ्ग! । गतक्रोधलोभादिसंरम्भशान्ते! जगद्वन्द्यपादारविन्दाऽप्रमाद! ॥११॥ ८३ गर्भागारे देवाद्दक्षिणतो द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां प्रथमा भित्तिः ॥ सतां. तेऽभितो नाममन्त्रः प्रदत्ते स्मृतेर्गोचरं प्रापितः शर्मसारम् । ततस्त्वं जिन! ध्येयवर्गेष्वशेषेष्वसि ख्यातिमानादिमो विश्वनेतः! ।।२२।। तादृश्येव द्वितीया भित्तिः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy