________________
२० ।
- अनुसन्धान-६४
६७.
जिन! पापारिविध्वंससज्जोद्भुततमोहर! । विधेहि हितकृत! काममहशमममोह! मे ॥१४॥
शिखरे गर्भाङ्गा(गा)रिकाबन्धः ॥ जितमोहमहासेन! नमद्दानवमानव! । भगवन्! भवभीतानां नाथ तानव सा तव (?) ॥१५॥ ६८
शिखरे देवाद्दक्षिणतः प्रथमबहिर्देवकुलिकाबन्धः ।। भवभ्रान्तिभयध्वान्त-तमोरिस्वमहाव्रत! | निर्वृति(ति) तपसा प्राप परां कामामहानितः ॥१६॥
तादृश्येव वामतो देवकुलिका || . बुधसंमतसर्वार्थ! तत्त्वदेशनकोविद! । तवाऽऽगमलगच्चित्तो धत्ते प्राणी न को मुदम् ॥१७॥ मण्डपबन्धः ॥७० तवाऽर्हन्! गोभरैस्तात! तरसा याति संक्षयम् । रवेरिव जगत्स्वामिन्! मिथ्यात्वतमसश्चयः ॥१८॥
७१
शिखरे मध्यदेवकुलिका ॥ जिन! त्रिभुवनाधार! रमानन्दनवारक! ।। करुणाकर! मां नेतं(तः?) पाहि त्वं परमार्थ[तः] ॥१९॥ ७२ शरणं भवभीतानां नाऽपरोऽस्ति त्वया विना । । नाथं त्वामेव तत् सः (?सन्तः?) श्रयन्त्यभव! तत्त्वतः ॥२०॥ ७३
द्वाभ्यां शिखरे उभयतो द्वितीये खण्डदेवकुलिके ॥ त्वामेव जगतामीशं शरणं भीतभाविनाम् । नाथ! ज्ञाः प्रतिपद्यन्ते तेजसामेकमन्दिरम् ॥२१॥ त्वदर्शनरसप्रीतं तत्त्वज्ञानवतां मनः । न रतिं लभतेऽन्यत्र त्रस्तमायामदस्मर! ॥२२॥
द्वाभ्यां शिखरे सर्वोपरितनभागे तथैव मध्यपङ्क्ती ॥ सर्वाभीष्टश्रियां मूलं ललनासङ्गवर्जितः । तपनीयरुचिः श्रेयो योगीन्द्रो ददतां परम् ॥२३॥ स्मरामि जगतां तात! तव पादयुगाम्बुजम् । जयं येन लभे भावबलाद् विद्वेषिणां पुरः ॥२४||
तथैव बहिःपङ्क्ती ॥
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org