________________
जुलाई - २०१४
अनन्तविज्ञानरमानिवास! सदोदितानन्दविलाससार! । रतीशजेतर्भगवन्! भयानां नामापि निर्मोशय नाभिजात! ॥६॥ ५९
पीठे उपरितनदण्डकाकारबन्धः ॥ यस्तातकल्पो जगतां हितैककर्ता स्मृतोऽप्यातनुते सुखानि । नित्योदितज्ञाननिधिर्जिनेशः शमः स देयाद् भवदुःखभीतेः ॥७॥ ६०
__अधस्तनबन्धः ॥ अपारसंसारदरक्षयाय रतीशहन्ता भविनां य एव । अशेषजीवाभयहेतुरेकः स एव सेव्यो भगवान् शिवाय ॥८॥ ६१
प्रथमचतुष्किका[का]रबन्धः ॥ समीहिताभावभृतो विशोकचर्या श्रियस्ते मनुजा भजन्ति । सदापि येषाममलाननानि रसात् स्तवं ते समकुयुरेकम् ॥९॥ ६२
. द्वितीयचतुष्किकाकारबन्धः ॥ रङ्गच्छिवश्रीतिलकोपमानि तिरस्कृताघानि भवन्ति नूनम् । रसान्तरज्यानि कृता मुदेश! नानाज्ञवृन्दानि भवन्नतानि ॥१०॥ . ६३
तृतीयचतुष्किकाकारबन्धः ॥ नाथ! प्रमाथं नतनिर्जरेश! नयस्फुरद्भावरिपून् ममारं(र?) । नार्हन्त्यु[पे]क्षां वधका यदेते तत्त्वश्रियां देव! कृताघनाश! ॥११॥ ६४
चतुर्थचतुष्किकाकारबन्धः ॥ तव भवदरहतिनिरते तेजोजितदिनकरस्य चरणयुगे । नितरां विनतिकरोम्यह-मसमर! शिवसदन! भवविभव! ॥१२॥ ६५
[सो]पानसप्तकबन्धः ॥ ... इति विनेयलवश्रीमुनिसुन्दरसूरि० महापर्व द्वितीये गूर्जरावतीदेश० श्रोतसि चैत्यषट्कबन्धचित्रमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीशत्रुञ्जयालङ्कारश्रीयुगादिचैत्यचित्रान्तर्रदे श्रीयुगादिस्तुतिमये गर्भागारस्तम्भपीठसोपानबन्धनामा महातरङ्ग महाहूदेऽयं मूलतश्च तरङ्गः [८] ॥
तत्त्वज्ञानयुत! क्षीणकर्माऽसङ्गाऽतनुप्रभ! । . प्रभोऽनादितमोध्वंसाज्जगदेतन्नतं तव ॥१३॥
शिखरे युगादिदेवनामाङ्कितकमलबन्धः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org