________________
१८
.
• अनुसन्धान-६४
चरद्वरं मारभरं चरान्तरे हरन् प्रदेयाः शिवमेव देव! मे। त्वमेव दत्सेऽथितमन्तकान्तकृ-ज्जगत्त्रयोन्मीलदमन्दमोद! यत् ॥११॥ ५२ .
त्रिलक्षकतोरणेऽपरतस्तोरणार्द्धम् ॥ एवं सम्पूर्णं त्रिलक्षकतोरणबन्धचित्रं सस्वस्तिकम् ॥ सुरनरमुनिसुन्दरस्तवौघा दधति जिनाद्यकुशाग्रतां यदन्तः । तव तमपि गुणाब्धिचित्रे(त्र)मीश! चित्रैर्मम नुवतो वितरेष्ट सौख्यमाशु ॥१२॥ ५३
___ इति श्रीशत्रुञ्जयगिरिस्वस्सिकत्रिलक्षकतोरणबन्धचित्रैः श्रीशत्रुञ्जयश्रीयुगादिजिनस्तवनं श्रीमुनिसुन्दरसूरिकृतम् ॥ इति युगपतद्विनेयलव(?) श्रीमुनिसुन्दरसूरिहत्तरङ्गिण्यां जयश्यङ्कायां द्वितीयगूर्जरावती-तन्नरेश्वर-श्रीपत्तननगरवर्णनश्रोतसि चैत्यषट्कचित्रमहाहूदे श्रीशत्रुञ्जयगिरिचैत्यबन्धचित्रान्तर्हदे द्वितीये तद्गिरिवरालङ्कार-श्रीयुगादिस्तवरूपे गिरिस्वस्तिक-त्रिलक्षकतोरणबन्धनामा महातरङ्गः प्रथमः ॥ मूलतश्च [६-७] ॥ अथ चैत्यचित्रम् - जयश्रियाऽन्तर्द्विषतां महोदयप्रदस्तवं श्रीऋषभप्रभुं स्तुमः ।। गरीयसि श्रीविमलाचले स्थितं तच्चैत्यचित्रैर्भवभीतिशान्तये ॥१॥ ५४ . ____ गर्भागारे देवस्य दक्षिणत: पङ्क्तिद्वयेन प्रथमा भित्तिः ॥ समग्रविद्यापुरुषार्थसाधनो-पदेशदानाज्जगतोऽप्यनादिनः । य या(आ)दिकर्ता समभूज्जिनागमं युगादिदेवं तमुपास्महे मतम् ॥२॥ ५५
तादृश्येव वामतो द्वितीयभित्तिः ॥ यं रीणदोषं प्रवदन्ति सूरय-स्तत्त्वप्रबोधाऽस्ततमोमयाः ---(?) । जगद्धितार्थं च सदोद्यतः प्रभुः कर्माणि धर्मांश्च जनान् शशास यः ॥३॥ ५६
पङिक्तद्वयेन तलबन्धः ॥ मयेति निद्भुतभवोऽर्थ्यसे प्रभुः सभक्तियोगादधता शिरोनतम् । स्तुतक्रमेन्द्रैर्मम मानसालये विधेहि नित्यं जिन! वासमादिम! ॥४॥ ५७
अर्थतो युग्मम् ॥ मयाऽर्च्यतां विश्वपतिजिनेन्द्रः स यः पुराणः पुरुषो युगादौ । चचार कारुण्यनिधिर्व्यवस्थां स्फुटां समग्रां जगतां हितार्थी ॥५॥ ५८
सतलमण्डपस्तम्भबन्धः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org