________________
अनुसन्धान-६४
परात्मश्रीदपञ्चास्य-स्वर्द्विपा(पा)लिपराभवे । श्रीपार्श्व! कृपया पाहि मां नाथ! परमन्थनात् ॥१८॥
श्रीपार्श्वनामगर्भं कमलं शिखरमूलमध्ये ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि० स्तम्भषट्क थण्टा(घण्टा?)मण्डपकमलबन्धनामा द्वितीयस्तरङ्गः ॥
मयि प्रसन्नो भव विश्वबन्धो! त्वदेकसेव्ये महिमैकसिन्धो! । .. विधेहि पंचासरपार्श्वनाथ! संसारदुःखाम्बुनिधेः प्रमाथम् ॥१९॥ त्वयि प्रसन्ने जगतामधीश! जन्मादिदुःखान्युपयान्ति नाशम् । तैरर्दितस्तत्तव पादपीठं भजन् विदध्यां स्तवनादिपाठम् ॥२०॥
लघुदेवकुलिकाचतुष्कम् ॥ विश्वेश्वरं पार्श्वजिनावतंसं समीहितानन्दकरं नतानाम् । श्रीपत्तनस्थं खलु वन्दमाना नायान्ति सांसारिकदुःखतापम् ॥२१॥
देवस्य दक्षिणतो बृहती देवकुलिका ॥ अपूर्वमेतत्तव पादपङ्कजं जगत्पते! निस्समशीतिमोदयम् । स्मृतेऽपि यस्मिन् भवभीतितापजं जहाति कष्टं भविकः प्रमोदभाक् ॥२२॥
___ मध्या देवकुलिका. बृहती ॥ राजाधिराजो वनराजनामा मान्यो न केषां स जगत्प्रधानम् । अतास्थपद्योल्ल(द्योऽत्र) भवन्तमीशं शमाय संसारभियां बुधानाम् ॥२३॥
वामतो बृहद्देवकुलिका ॥ त्वं देव! पंचासरपार्श्वनाथ! करोषि येषां हृदये निवासम् । तेषां सरोगा दुरितोपसग्र्गा भजन्ति सद्योऽपि जिन! प्रवासम् ॥२४॥
शिखरमध्ये मु(ख?)ण्डदेवकुलिकाकारः ॥ तपोभिरुग्रैर्नहि मुक्तिसम्पदं दमैर्न चित्रैर्न मरुत्प्रसाधनैः । जडा लभन्ते विभुना त्वया विना, नानाप्रयुक्तैरपि कायदण्डनैः ॥२५॥ .
शिखरे उपरितने शीर्षभागे मध्यपङ्क्ती ॥ तपोजपाद्यौपयिकैरनेकशः शमादियुक्तैरपि याऽन्यदर्शनैः । न साध्यते मुक्तिरसावपि ध्रुवं वशीभवेन्नाथ! तवांहिसेवनैः ॥२६॥
शिखरे उपरितने बहिः पङ्क्ती ॥ एवं त्रिभिः शिखरे सामलसारकोपरितनभागबन्धः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org