SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ शमाय रागादिगदोच्चयानां नाथ! त्वदुक्तानि महोषधन्ति । तिरोहितज्ञानदृशोऽपि तानि निन्दन्ति ही! मोहपटेन पापाः ॥९॥ . तृतीयसोपानम् ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि-हृदयहिमालयावतीर्ण-श्रीगुरुमहिमपद्महूदप्रभवायां युगप्रधानावतार-श्रीमत्तपाबृहद्गच्छमण्डनगुरुश्रीदेवसुन्दरसूरिपदपद्मसौभाग्यार्णवानुगामिन्यां श्रीमहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये गूर्जरावती-तन्नरेश्वर-श्रीपत्तननगरादिश्रोतसि चैत्यषट्कचित्रमहाहूदे श्रीपंचासरपार्श्वचैत्यबन्धचित्रान्तहदे स्वदेवस्तुतिरूपे तलपट्ट-भारपट्ट-सोपानत्रिकरूपपीठबन्धनामा प्रथमस्तरङ्गः ॥ विनयं नयनप्रीतिप्रदये त्वयि बिभ्रति । कुर्वते ससुरास्तेभ्यः सर्वेऽनघनरा नतिम् ॥१०॥ स्तम्भः ॥ आमं वामतमं पार्श्व भवरूपं हरन्नवक (?) । त्वमेव द्वौ पथौ मुक्तिप्राप्त्यै विश्वविभो! विशः ॥११॥ स्तम्भः ॥ सारं पुरवरं विश्वे मान्ये पत्तनमेव तत् । . यत्र त्वं पूज्यसे प्रातर्भव्यैरतरतारकः ॥१२॥ स्तम्भः ॥ श्रितस्य तव तन्त्रोक्तं मार्ग सत्पुण्यवैभवम् । लोभवह्निर्नयत्येष न विशः कृशतां शमिन्! ॥१३॥ स्तम्भः ॥ नतं वीतक्षितं यस्य त्वां शिरः परमेश्वरम् ।। लभतेऽसौ न संयोगं प्राप्तशुद्धशुभः शुचा ॥१४॥ स्तम्भः ॥ मुधा मेधा बुधाभ्यर्च्य! तेषां मेधाविनां विभो! । त्वयि ये मत्सरं यान्ति परे धर्मेऽन्धताधराः ॥१५॥ स्तम्भः ॥ न स ह्यभिनतिं विज्ञो विश्वेऽप्यन्यस्य कस्यचित् । वितनोति गुणानात(?)ज्ञोचितां यः स्तुति सृजेत् ॥१६॥ थटा(घण्टा?)बन्धः ॥ स्तोत्राद् भवन्ति भवतो भविनः क्षणेन ... तातक्रमाम्बुजविनम्रविचक्षणेन । .. वन्द्या मुदा दिविषदामपि नायकेन गर्जन्महादितिजभीभरदारकेन ॥१७॥ उभयतो मण्डपौ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy