SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ __'त्रिदशतरङ्गिणी'-अन्तर्गता चैत्यषट्कबन्धचित्ररूप-जिनस्तवावलिः ॥ अथ चैत्यषट्कबन्धचित्ररूप-श्रीजिनस्तवावलिनामा [म]हाहृदः स्वस्वदेवस्तुतिरूपः सालेखो लिख्यते । तत्र पूर्वं श्रीपत्तनमण्डन-पंचासरश्रीपार्श्वचैत्यालेख: तत्कारयितुः श्रीवनराजस्य तत्प्रतिबोधकस्य श्रीशीलगुणसूरेश्च. प्रतिमया युत आलिख्यते । तच्चैत्यचित्रबन्धने श्रीपार्श्वस्तवश्च लिख्यते ॥ यथा - जयश्रियं सर्वपुरेष्ववाप्य पुण्यर्द्धिभिः पत्तनमादधाति । चैत्यं जयस्तम्भमिवाऽत्र यस्य स्तवीमि पंचासरपार्श्वमेनम् ॥१॥ स्तुति त्वदीयां जगताऽप्यशक्यां कथं विधाताऽस्मि जडावतंसः । श्रीपार्श्वनाथेति न चिन्तयामि विचारबन्ध्यौ(वन्ध्यो) ह्यतिभक्तिरागः ॥२॥ तलपट्ट[भारपट्ट?]बन्धौ ॥ अमेयमाहात्म्यमयस्वरूप! पराभिभूतान्तरशत्रुचक्र! | . भवाम्बुराशौ निपतन्तमेनं नतं [वि] भो! मामव पार्श्वदेव! ॥३॥ निश्रेण्याकारसोपानपङ्क्तौ उभयतो दण्डकौ ॥ मेधाविनस्ते स्युरमर्त्यपूज्या ज्यायःशुभश्रीभरसङ्गभाजः । । जना विभो! येऽनुदिनं भवन्तं तमोपहं नंनमतीद्धभावाः ॥४॥ मारारिवारोत्थपराभवेन न दग्ध[भा]वेषु रतिं भजेत । तव स्वरूपस्य विभावनेन नरो दधानो धियमत्र साराम् ॥५॥ द्वाभ्यां प्रथम सोपानम् ।। स्वभावतस्त्वं जगतां हिताय यमिन्! प्रवृत्तिं दधसे सदापि । पितेव वात्सल्यरमानिधानं रम्योऽसि तद् बुद्धिमतां नितान्तम् ॥६॥ परा[:] समृद्धीस्तनुतेऽप्यधीतं तवाऽभिधानं सकलार्त्तिनाशम् । शमीश! कुर्वद् भविकव्रजानां नाथाऽस्ति मन्त्रस्तदतः परो न ॥७॥ द्वितीयसोपानम् ॥ तनोति यस्यांऽशुपतिर्न नाशं शतं मणीनां न न दीपकानाम् । नापीन्दुरन्तस्मिरं(स्तिमिरं?) क्षणेन नयेत् तदन्तं तव वाक् प्रकामम् ॥८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy