________________
२१२
___ अनुसन्धान-६४ यदीयनामस्मरणं रणादि-भयेषु सर्वेष्वभयं करोति । ......................., करोतु शान्ति करुणासनाथः ॥२॥ . आरोप्य येन स्ववपुस्तुलायां, त्रात: कपोतोऽसुपणैर्भवे प्राक् । कारुण्यपुण्याम्बुनिधिसुदं वः, श्रीशान्तिनाथः स जिनः सदैव ॥३॥
॥ इति शान्तिः ॥ श्रेय:श्रीसुखमातनोतु सततं नेमिर्जिनेशः सतां, नीलेन्दीवरपीवरद्युतिभरः संसारपारप्रदः । . यः शङ्के किल पूरय----- कुर्वन्निवाऽभाद् विभुः, स्वैरं दैत्यरिपोर्महद्भुजबलप्रोद्यद्यशःसञ्चितम् ॥१॥ पराजितः पञ्चशरोऽपि येन, द्राक् सुभ्रुवां भ्रूवनमाविवेश । स सौख्यलक्ष्मी वितनोतु नो वः, श्रीनेमितीर्थाधिपतिनितान्तम् ॥२॥
॥ इति नेमिः ॥ स्वस्तिश्रीसेवितं पावं, नव्यनीरदधासुरम् । जिनेश्वरं जगद्वन्द्यं, सर्वाभीष्टफलप्रदम् ॥१॥ कमठकृतघनौघैः प्लावितक्षोणिदेशे, दृढविरतिमदङ्गं मग्नमाकण्ठपीठम् । तदनु वदनमस्मिन् यस्य चाऽङ्गीचकार, प्रमुदितकमलाभं स श्रिये पार्श्वनाथः ॥२॥
॥ इति पार्श्वः ॥ येनोन्नताङ्गष्टनखाग्रभाग-प्रचालनात् क्षोभित एव मेरुः । मरुत्कृते जन्ममहोत्सवेऽपि, श्रेयःश्रिये वीरजिनः स भूयात् ॥१॥ चिरं स्थिरीकर्तुमिवाऽऽरकेऽस्मिन्, स्वं शासनं योऽभ्युदियाय विश्वे । सिद्धार्थभूपान्वयसागरेन्दुः, प्रणम्यतां वीरजिनाधिराजम् ॥२॥
॥ इति वीरः ॥ इत्येवं प्रणम्य ॥
दूहा
स्वस्ति श्रीशैजपति, आदिकरण आदेय, हरण पाप सुखकरण नित, जयो जयो नाभेय. १
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org