SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ २०३ ओसवंस जीण उद्धर्यो, साह हरचंदकुलसीह, मात गुमानदेनंद तुं, अतिसयवंत अपार. ४ श्रीगुरु नायक गछधणी, जिनशासनशृंगार, गुण छत्रीस विराजतो, सूरिगुण श्रीकार. ५ श्रीविजैधर्मसूरिंदनो, पट्टभावक सूर, श्रीविजैजिनेंद्रसूरिंदजी, नायक चढते नूर. ६ श्रीश्रीश्रीभट्टारकजी, सर्व गुणे सहीतान्, एकसो अठ जिनेंद्रसूरिंदजी, सूरीश्वरचरणान्. ७ ॥ अथ काव्याष्टकम् ॥ श्रीमद्गच्छाधिभत्रु(तुः) चरणमधुपतां ये श्रयन्तीह भव्यास्त्यक्त्वा कार्यान्तराणि प्रतिदिवसमहो! श्रद्धया पूरिताङ्गाः । तेषां गेहं कदाचित् त्यजति न कमला चञ्चलत्वं विहाय, सत्सङ्गाभो(भा?)जनानां भवति न कथं सद्गुणानां प्रवृत्तिः ॥१॥ सकलया कलया कलितः प्रभुः, प्रभुतया विदितो विदितागमः । गमनयार्थविचारणतत्पर[:], परमनिवृतिनिर्वृतयेऽस्तु न[:] ॥२॥ कामं ददाति भविनां नु विलोकितो यः, आकर्षितः क्षिपति दुर्गति दुःखजालम् । संसेवितो वितनुते श्रियमाश्रितानां, सोऽयं शुभानि विदधातु विभू(भु)र्यतीनाम् ।।३।। वाच्या युष्मद्यशोभिर्निबिडधवलितां वृत्रहाऽऽलोक्य वेणी, त्रैलोक्याखण्डभाण्डोदरविवरगतं वस्तुजातं स्पृशद्भिः । भ्रान्ते स्वान्ते प्रपेदे त्रिसमयविदहो निर्जरत्वे जरेति, चित्रं गच्छाधिराजामितविततगुणाम्भोनिधे! ध्येयनाम ॥४॥ स्वामी(मि)न्! त्वदीयं किल नाम धाम श्रियामनन्तं प्रभुताश्रयं यत् । त्वत् किं न दन्ते परितं स्मृतं नः, सुखं सुतेऽल्पीकृतकल्पवृक्षः ॥५॥ श्रीसूरिसम्राड् भवदीयतेजसा, पराभवं पूर्वमलं प्रलम्भितः । धैर्यत्व(न्व)वष्टभ्य(?) कथं कथञ्चन, ब्रनः पुनस्तद् विजयार्थमुद्यत: ॥६॥ प्रतिप्रभातं शकुनं विलोकितं, शोचि(:) शलाका किल पद्मपुस्तके । चिक्षेप यस्मात् सहसा जनासितः, प्रागेव भृङ्गो निरयाय भङ्गदः ॥७॥ प्रभो! शशाङ्कोपमितं त्वदीयं, सद्दर्शनं सौम्यगुणं विलोक्य । प्रसीदतो मे बत दृक्चकोरा-वभीष्टमासाद्य समश्च मोद्यते ॥८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy