SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ स्वाहाकार-वषट्कारै-ब्रह्मघोषैविनादितः।। मुदितः सर्वतो रम्यः सर्वसत्त्वसुखावहः ॥५३।। भेरीमृदङ्गाभिरुतः शङ्खघोषविराजितः । नित्योत्सवमहापूजः सदा पर्वसु पूरुषैः ॥५४॥ समुद्र इव गम्भीरः पर्जन्य इव सस्वनः । महाजनसमाकीर्णो हंसैः सर इवाकुलः ॥५५॥ . . माल्यदामभिराकीर्णः पष्पभक्तिविचित्रितः । दिव्यगन्धो सवैर्युक्तो(?) दीपिकाभिर्विदीपितः ॥५६॥ इतश्चेतश्च धावद्भिर्वृतैश्च विटगणैरपि । .................. ॥५७॥ हृष्टः प्रमुदितो लोकः तुष्टः पुष्टः सुधार्मिकः । निरामयो निरोगश्च दुर्भिक्षायासवर्जितः ॥५८॥ न पुत्रमरणं तत्र पश्यन्ति स्म नराः क्वचित् । नार्यश्चाऽविधवा नित्यं पतिशुश्रूषणे रताः ॥५९॥ न वातजं भयं किञ्चित् नाऽप्सु मज्जन्ति जन्तवः । न चाऽग्निजं भयं किञ्चित् यथा तुर्यारके तथा ॥६०॥ तस्य राष्ट्रे न भयिनो नाऽनाथस्तत्र नाऽबुधः । न दुर्गतो न कृपणो न व्याध्यतॊऽभवन्नरः ॥६१॥ तत्र छुपाश्रयाः सन्ति यतीनां धर्मचारिणाम् । तेषु मुख्यतमश्चैको द्वारि तोरणभूषितः ॥६२॥ हेमस्तम्भसमायुक्तः सर्वलक्षणलक्षिणः(तः?) । श्रावका बहवो यस्य सेवका धनसंयुताः ॥६३।। गन्तव्यं तत्र भो स्वामिन्! यदि चित्ते विरोचते । यतिभिः शास्त्रनिपुणैः साकं ध्यानपरायणैः ॥६४॥ तस्मिन्नेव पुरे स्वामिन्! सुपार्श्वस्य महात्मनः । प्रासादो राजते तत्र ध्वजपताकलक्षितः ॥६५॥ तत्र वै भ्राजते स्वामिन्! सूर्यकोटिसमप्रभः । अज्ञानतिमिरं नृणां दर्शनादेव नाशनात् ॥६६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy