________________
जुलाई - २०१४
१५९
मृदङ्गवेणुवीणानां रम्यैः शब्दैनिनादितः । नित्योत्सवसमाजाढ्यो नित्यहृष्टजनाकुलः ॥३९॥ ब्रह्मघोषस्वनैर्युक्तो धनुःस्वनावनादितः । वरान्नपानसलिलः शालितन्दुलभोजनः ॥४०॥ गृहैश्च गिरिसंकाशैः शारदाम्बुदसन्निभैः । पाण्डुराभिः प्रतोलीभिरुच्चाभिरुपशोभितः ॥४१॥ अट्टालकासनाकीर्णाः पताकाध्वंजमालिनः । तोरणैः काञ्चनैः दिव्यैर्लताभिश्च विचित्रितः ॥४२॥ सुविभक्तमहारथ्यः चत्वरापणमण्डितः । सज्जयन्त्रोपकरणः प्रभूतवनवाहनः ॥४३॥ तृ(तु)ष्टनागरसम्पूर्णः सर्वकामसमृद्धिमान् । शीलाप्रवालैर्वैडूर्यमुक्ताकाञ्चनराजतैः ॥४४॥ भ्राजमानो गृहश्रेष्ठ-नक्षत्रैर्गगनं यथा । प्रासादमालाविततः स्तम्भैः काञ्चनराजतैः ॥४५॥ शातकौम्भमयैर्जालैर्गान्धर्वनगरोपमैः । तलैः स्फाटिकसंवीतैः प्रासादैः स्वर्णभूषितैः ॥४६॥ वैडूर्यमणिचित्रैश्च मुक्ताराजतचित्रभिः(?) । भ्राजमानगिरिश्रेष्ठैः विद्युद्भिरिव संयुतैः ॥४७॥ जाम्बूनदमयैर्जालैर्वैडूर्यकृतवेदिकैः । मणिस्फाटिकमुक्ताभिः प्रवालकृतभूमिभिः ॥४८॥ क्रौञ्चबहिणसंघुष्टै ग्नजहंसैनिसेवितैः । तूर्यावरणनिर्घोषः सर्वतः प्रतिपादितः ॥४९॥ मातङ्गमदगन्धाद्य-चारुप्रासादसंवृतः । ध्वजाग्रसदृशैश्चित्रैः पद्मस्वस्तिकसंयुतैः ॥५०॥ वर्धमाननिवेशैश्च वर्द्धमानगृहैस्तथा । गृहमेधैः पुरी भूयः शुशुभे द्यौरिवाऽम्बुदैः ॥५१॥ वराभरणनिर्बादैः समुद्र इव सस्वनः । दिव्येनाऽगुरुणा सिक्तो मुख्यैश्च वरचन्दनैः ॥५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org