SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ अनुसन्धान-६४ एते हि वल्गुवचसो रथनाभाह्वयद्विजाः ।। अवरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥२५॥ विधूतकल्मषैः सिद्धैः तपोधनसमन्वितैः । नित्यविक्षोभितजलं द्रष्टव्यं च त्वया गुरो! ॥२६॥ तत्पार्वे वर्तते सम्यक् नगरो लोकविश्रुतः । मनुनामा न चेन्द्रेण जयसिंहेन निर्मितः ॥२७॥ . . सुविभक्तान्तरद्वारः सुविभक्तमहापथः । .... शोभितो राजमार्गेण जलसंसिक्तरेणुना ॥२८॥ नानावणिग्जनोपेतो नानारत्नविभूषितः । । महाशालान्वितो दुर्ग उद्यानप्रवरैर्युतः ॥२९॥ दुर्गगम्भीरपरिखो नानायुधसमन्वितः । कपाटतोरणैर्युक्त: उपेतो धन्विभिः सदा ॥३०॥ दृढद्वारप्रतोलीकः स्वविभक्तान्तरायणः । नानायन्त्रैः समायुक्तो नानाशिल्पिगुणान्वितः ॥३१॥ शतघ्नीपरिघोपेतो ह्युछितध्वजतोरणः । नानारत्नचयाकीर्णो धनधान्यसमन्वितः ॥३२॥ हस्त्यश्वरथसम्पूर्णो नानावाहनसंकुलः । नानापार्थिवदूतैश्च वणिग्भिश्चोपशोभितः ॥३३॥ वितानशतसम्बद्धः सर्वैश्च विभवैर्युतः । देवतायतनैश्चैव विमानैरिव शोभितः ॥३४॥ शुभोद्यानप्रपाभिश्च रुचिराभिरलङ्कृतः । सुविभक्तमहाहर्यो नरनारीगणान्वितः ॥३५॥ विद्वद्भिरायपुरुषै-राकीर्णश्चाऽमरोपमैः । आरोहमिव रत्नानां प्रतिष्ठानमिव श्रियः ॥३६॥ महाप्रासादशिखरैः शैलाग्रैरिव शोभितः । विमानचयसंयुक्त इन्द्रस्येव पुरं महत् ॥३७॥ नानारत्नचयश्चित्रोत्कृष्टपुष्टजनैर्युतः । अविच्छिन्नान्तरगृहैः समभूमिनिवेशनः ॥३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy