SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५६ अनुसन्धान-६४ अधुना शृणु मे स्वामिन्! विज्ञप्तिं दीनवत्सल! । दूतोऽहं प्रेषितः सर्वैः श्रावकैश्च विशेषतः ॥२५॥ . नाम्ना जयपुरो नाम सर्वस्थानशिरोमणिः । तत्रस्था: श्रावकाः सिंहाः युष्मदर्शनकांक्षिणः ॥२६॥ ते हि ब्रुवन्ति वै नित्यं ह्येवमेवमहर्निशम् । --[अत्र?] ह्यागति गच्छेन्द्राः तदा पूर्णमनोरथाः ॥२७॥ भविष्यामो वयं नूनं श्रीमद्गुरुप्रसादतः । त(?)त्रत्येषु कृपा स्वामिन्! कर्त्तव्यैव जगद्गुरो! ॥२८॥ अथ जयपुरवर्णनम् - प्रणम्य परया भक्त्या पार्श्वपादसरोरुहम् । कविताकुशलं चापि सूरिं सर्वार्थसिद्धिदम् ॥१॥ क्रियते वर्णनं रम्यं सूर्यवंशिपुरस्य हि । साकेतवच्च सौन्दर्यं यस्य जयपुरस्य तु ॥२॥ नाम्ना च पर्णदूतेन त्वत्प्रसादेन श्रीगुरो! । जगज्जातनिकृन्तेन जडचैतन्यकारिणा ॥३॥ यूपद्वारं सुसंमृष्टं कदलीवनशोभितम् । क्षान्तव्यालमृगाकीर्णं वेदिमण्डलमण्डितम् ॥४॥ स्वर्गस्य विवृतं द्वारं भ्राजमानं वनश्रिया । बहुपुष्पफलं रम्यं यक्षराक्षसवर्जितम् ॥५॥ नानामृगगणैर्युक्तं देवर्षिगणपूजितम् । देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ॥६॥ तपश्चारणसंसिद्धैरग्निकल्पैः महात्मभिः । सततं संकुलं श्रीमन्! ब्रह्मकल्पैर्महात्मभिः ॥७॥ अव्रक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा । फलमूलाशनैर्दान्तैजितरोजितेन्द्रियैः ॥८॥ संप्रक्षालैरश्मकुट्टैर्दन्तोलूखलिभिस्तथा । ऋषिभिः वालिखिल्याद्यैर्जपहोमपरायणैः ॥९॥ द्रष्टव्यो ह्यचलः तत्र रमणीयो नगेषु च । वनराजिसमायुक्त: नानाद्विजसमाकुलः ॥१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy