________________
जुलाई - २०१४
१५५
देवतामन्दिरैश्चैव ध्वजकेतुसमन्वितैः । भ्राजिता सर्वशोभाढ्या सर्वगन्धसुगन्धिता ॥११॥", काञ्चनानि विमानानि राजतानि गृहाणि च । तपनीयगवाक्षाणि मुक्ताजालान्तराणि च ॥१२॥ हैमराजतभौमानि दिव्यमालयुतानि च । प्रभया भ्राजमानानि काञ्चनानि बृहन्ति च ॥१३॥ हैमराजतमुख्यानां भाजनानां च सञ्चयैः । ह्येतैश्चाऽप्यधिकैश्चाऽपि राजमाना विशेषतः ॥१४॥ एषा सरिद्वरा स्वामिन् गोमतीनाम नामतः । ईदृशी हि पुरा शोभा ह्यस्या वै वर्णयामि ते ॥१५॥ दीपिता काञ्चनैर्वृक्षैः कान्त्या ह्यग्निशिखोपमैः । शालैः प्रियकतालैश्च पूर्णकैश्च द्रुमैस्तथा ॥१६॥ चम्पकैर्नागपुष्पैश्च नानाशकुनिनादितैः । तरुणादित्यसंकाशैः रक्तैः किशलयैर्वृता ॥१७॥ नीलवैडूर्यवर्णाभिः पद्मिनीभिर्विराजिता । महद्भिः काञ्चनैः पुष्पैः वृता बालार्कसन्निभैः ॥१८॥ जातरूपमयैर्मत्स्यैर्विचरद्भिः सकच्छपैः । विद्युत्सम्पातवर्णैश्च सामवेदसमस्वनैः ॥१९॥ आरूढैर्वृक्षशाखासु भ्रमरैः काञ्चनप्रभैः । ऋषीणामाश्रमैश्चैव पारावारविराजितैः ॥२०॥ कादम्बैः सारसैहँसैः वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनै दिता भृशम् ॥२१॥ चरद्भिः सर्वतो युक्ता स्थलीषु विविधैर्मृगैः । .. प्रभिन्नकरटैश्चापि शुक्लदन्तविभूषणैः ॥२२॥ इदानीमीदृशी चैषा पुरी च कालयोगतः । दृश्यते च्य(य)वनाक्रान्ता हिंसकैर्बहुभिर्वृता ॥२३॥ युष्मत्तेजसा नूनं हिंसका नहि हिंसकाः । जानेऽहं श्रीगुरो! स्वामिन्! कृपया युष्मदीयया ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org