SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १३९ का द्राक्षा किल नाऽऽप्यते जगति या तुच्छैः कृतान्साभरैः(?), किं पीयूषमशेषमानवगणैर्यल्लभ्यते न क्वचित् । का कम्रा खलु शर्कराऽपि कठिना या कर्करौघात्प्रभो!, मृद्व्यास्ते पुरतः समस्तजनतासाधारणीया गिरः ॥११॥ :: लोकानां कुमतग्रहः शिवपथप्रत्यूहभूतः प्रभो!, प्राप्नोति प्रलयं त्वदीयविशदब्राह्मीवितानश्रुतेः । नन्वम्भोदरवर्षणाज्जनमनःसन्तापपूगप्रदः, किं तापप्रकरः प्रभूष्णुरभितः स्थातुं भवेद् भूतले ॥१२॥ वाचस्ते व्रतिवासवोरुविबुधावाच्याक्षरोद्युन्मुखश्रेणीदाननिदानतोदयजुषः स्वोर्लता स्वल्पदा । अप्युद्दीप्रविभावतो गृहमणेरुद्योततः सम्भवेद्, भूयानेव ननु प्रकाशविषय: सूर्यस्य तीव्रत्विषः ॥१३॥ तावद् द्यत्यतिमानमानतटिनीवेगो वृषानोकहं, तावद् क्रोधविभावसुर्गुणतृणश्रेणी दहत्यङ्गिनाम् । तावल्लोभतमास्तनोति च भयं सन्तोषशीतयुतेर्यावत् तावकवाक्सुरद्रुमलता न प्रापि पापापहा ॥१४॥ कण्डूयामपनेतुमिच्छति वपुष्यग्रेण कुन्तस्य सः, व्यालं कालवपुर्विभाव्रजजुषं कण्ठे करोत्याशु सः । . कारागारगुहोदरेऽभिलषति स्थातुं स मूढाग्रणीस्त्वद्वाचां वचनीयतां वितनुते विश्वाW! जाड्येन यः ॥१५॥ धिक् धिक् तान् किरति त्वयि स्फुटकृते ब्राह्मीरसे सर्वतः, . सर्वानन्दनिदानतामधिगते पङ्कापहारक्षमे । वर्षत्याशु जवासका इव नवाम्भोवाहवृन्दे गलत्कामोत्तापकदम्बके किल न ये सन्तोषपोषं ययुः ॥१६॥ दुष्टाः शिष्टपथप्रयाणविमुखाः कारुण्यपुण्योज्झिताः, कन्दर्पद्विपकेलिपातिममहा मन्दाक्षवृक्षाश्च ये । भारत्या भवतो भवभ्रमभिदा स्वामिन्! समानिन्यिरे, ते सद्वर्त्मनि गाव उत्पथगता रज्ज्वेव सूतस्थया(?) ॥१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy