________________
१४०
अनुसन्धान-६४
तत्त्वं त्वद्वचसां विना न जनता दीप्ताऽपि विद्याग्रहादन्येषां नितमां तमःसमुदयं नेतु प्रणाशं प्रभुः । पुण्याम्भोनिधिवृद्धिसिद्धिजनकं प्रोद्यत्कलापेशलं, पीयूषद्युतिमन्तरेण तुहिनाभीशोरिव प्रेयसी ॥१८॥ पाण्डित्यं जडतावतां प्रकटयत्युत्पादयत्युच्चकैरानन्दं रुचिरं चिरं विरचय(?) क्लेशप्रबन्धात्मनाम् ।. . . स्थैर्य संयमिनां च संयमपथे सम्पादयत्यद्भुतं, सर्वत्राऽपि सरस्वती तव विभो! जाता गुणस्फातये ॥१९॥ एवं विश्वमनश्चयस्मयहरप्रोद्यद्गुणश्रेणिभिस्तातैर्जातजगत्सुखैः शिशुशिखिप्रीत्यैः प्रसाद्या: जवात् । स्वाङ्गारोग्यपरिच्छदादिकतनूल्लाघत्ववृत्तान्तसान्नीरव्यक्तिकरी प्रसादविलसत्पत्री पयोमुग्धया ॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org