SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ लीलालापसमुत्थिताऽपि भवतो भिक्षुप्रभो! भारती, जाग्रज्जाड्यमपाकरोति मनुजश्रेणे: प्रमोदप्रदा । रत्नानां निकरो निसर्गतट (टि) नीप्राणाधिनाथोच्छलल्लोलोल्लोलबहिष्कृतो भवति किं नो सान्द्रदारिद्र्यभित्? ॥४॥ संसारद्रुममूलपाततटिनी वेगावली प्राणिनां अनुसन्धान-६४ त्वद्द्राणी श्रुतिगोचरं यदि विभो ! प्राप प्रतिष्ठास्पदम् ।. उग्रकोधविशालवाडवबृहद्भानुप्रकाशस्तदा, कि निर्माति दुरन्तदुष्कृततत श्रोतस्विनीवल्लभः ॥५॥ भारत्या भवतो भवभ्रममुखो (षो) माहात्म्यमत्यद्भुतं, नो शक्यं कविकोटिभिर्निगदितुं शास्त्रार्थविस्तारिभिः । वल्ली स्वर्गसदामिव क्षितिरुहः स्वल्पाऽपि या मानसाभीष्टं शिष्टधियां नृणां घटयति स्पष्टं पटिष्ठोन्नतिः ॥६॥ व्याख्याते विशदे विविच्य विपुलग्रन्थार्थतत्त्वे त्वया, भव्यानां पुरतः प्रयाति परमं सद्धर्ममार्गं न क: ? । पश्यत्वेव पदार्थसार्थमभितो द्रष्टा पुमान् ह्यब्जिनीप्राणेशप्रवरप्रभासमुदयप्रद्योतितं वेगतः ॥७॥ तद्वाचं प्रतिवन्दितक्रमकज ! स्वान्ते सतां बिभ्रतां, जाड्यं न स्थिरतामुपैति विपुलं स्थल्याविवाऽम्भोभरः । प्राप्नोति प्रसरं विवेकविभवस्तूच्चैरिव स्रोतसां, प्राणेशः पृथिवीतले कुमुदिनीकान्तातिकान्तोदयात् ॥८॥ तेषां तुच्छतरोदयो रिपुरिव द्रोहाय मोहो नहि, स्याद्वामं न पुनः स्मरस्तृणमिवाऽऽधातुं पटीयान् भवेत् । कान्ताकार्मणकीलितेव करुणा कुर्यात् स्थितिं चाऽन्तिके, ये कम्रां कलयन्ति चेतसि चिरं 11811 सिद्धं धान्यमिव क्षुधातुरतनुस्तोयं तृषेवाऽर्दितस्तापव्यापजखेदमेदुरमना च्छायामिवोर्वीरुहः । विश्राम (विश्रामं ? ) सरणिश्रमाकुल इव प्राज्ञः सुविद्यामिव, ब्राह्मीं तारक! तावकीं भवति कः श्रोता विहातुं विभुः ? ॥१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy