SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १३७ अत्रत्याः शास्त्राभ्यसनासक्ता, इत्यादियतयो(यः) । तत्रत्याः सङ्घश्चापि प्रमोदतः, श्रीतातपादपादाब्जान्नमन्ति प्रतिवासरम् ॥७७॥ किञ्चाऽत्र परिसरे - इत्यादि मुनिवरा ये, यत्र चतुर्मासकं स्थितास्तत्र । निरपायतया जाताब्दिकपर्वाणः सुखं सन्ति ॥८॥ किञ्च - शुक्लापाङ्गशिशुधनाघनरवं बालो यथा मातरं, चक्र: पङ्कजिनीपति हिमरुचेर्योत्स्नाप्रियश्चन्द्रिकाम् । कान्तं प्रोषितभर्तृका च करटी विन्ध्याचलोपत्यकां, श्रीमत्तातपदारविन्दयुगलं ध्यायामि चित्ते तथा ॥७९॥ अर्थोचित्यविमुक्तं, यदुक्तमिह मन्दबुद्धिवशतः स्यात् । तत् क्षन्तव्यं तातै-र्भवन्ति सर्वंसहा गुरवः ॥८०॥ नानालङ्कृतिकलिता, सकर्णगणवर्णनीयवर्णवृता । सुललितपदविन्यासा, पत्री सुस्त्रीव शं दिशतु ॥८१॥ ॥ इति लेखविधिः ॥ अथ भारतीवर्णनद्वारा श्रीमद्गुरुराजवर्णनप्रस्तावनाप्रपञ्चः ॥ अम्भोवाहमिवाऽम्बुवाहसुहृदः कोका इवाऽर्कोदयं, माकन्दं पिकपुङ्गवा इव गजा विन्ध्याचलोर्वीमिव । प्रौढप्रीतिकदम्बका यदमभृद्भानो(?) भवद्भारती, मन्यन्ते महते मुधाकृतसुधाधाराश्चिरं सज्जनाः ॥१॥ नो मुञ्चन्ति तदन्तिकं निजतनुच्छाया इवोग्रापदो, .नो पश्यन्ति तदाननं सुजनताः प्रेष्याः प्रनष्टा इव । श्रीवाचंयमवासरेश्वर! भवद्वाचां विना वन्दनं, ये काले क्षिपयन्ति हन्त! पशुवत् सद्बोधशुद्ध्युज्झिताः ॥२॥ . भव्यानां प्रकटीकृतातनुमुदि स्वामिन्! विलासे गवां, सञ्जाते भवतस्तदत्ययकरः कश्चिज्जडस्तर्हि किम्(?) । ... भूमौ भूयसि वर्षति प्रविलसच्छस्यप्रशस्योद्गमे, . पाथोदे परितः किमर्कतरुणा श्रीः प्रापि कापि ध्रुवम् ॥३॥ " । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy