________________
१३४
- अनुसन्धान-६४
इत्थं मेधाविसन्दोह-गीयमानगुणोत्करैः। सद्यः प्रसादपत्रं मे, प्रसाद्यं साधुसिन्धुरैः ॥३७॥ श्रीवाचकशार्दूलां-स्त्रिसन्ध्यं भक्तिसंयुतः ।
विनयात् ......, प्रणत्यनुवासरम् ॥३८॥ तत्रत्य मुनीनामनुनतिं कुरुते च । अत्रत्याः श्रीवाचकपादान् प्रणमन्ति ।
॥ इति लेखविधिः ॥श्रीः॥
पत्र खरडो नं. ४ मन्दारभासुरतरं द्विजराजराज-मानं विमानिपथवद् वृषमेषयुक्तम् । सूराश्रितं गुरुतरं गुरुसङ्गतं च, विभ्राजते पुरमिदं बुधबुध्यमानम् ॥१॥ . यस्मिन् गवाक्षशिखरस्थितकामिनीनां, वक्त्राम्बुजैः सपदि तर्कविचारदक्षाः पक्षं विधाय किममी गगनारविन्दं, वादं वदन्ति सुरभीति परस्परेण ॥२॥ उच्चस्तरां सदनपङ्क्तिशिरःस्थिताना-मन्योन्यहास्यरुचिरोचितचन्द्रिकाणाम् । चन्द्रोदये मृगदृशां वदनैविशेषान्, मन्ये नभः शतशशाङ्कमयं किमत्र ॥३॥ श्रेयस्विनामतिशयोन्नतमन्दिराणां, वातायने मणिमयूखगतान्धकारे । विष्वग् विकीर्णकुसुमभ्रमदं स्थिताऽत्र, तारागणं स्पृशति काऽपि करेण मुग्धा ॥४॥ रम्भाभिरामसदना मदनानुरूपाः, सुस्वामिका गुरुगरिष्ठपरीष्टिमन्तः । सानन्दनन्दनमनोरमकेलिकान्ता, राजन्ति नाकिनिकरा इव यत्र पौराः ॥५॥ दोषामुखभ्रमकरं भ्रमरालिनीलं, यत्रेन्द्रनीलनिलयावलिशृङ्गसङ्गि । छाया-तमोविरहदं समवेक्ष्य दूरा-न्नित्यं दिवाऽपि किल चक्रकुलं बिभेति ॥६॥ यद्भोगिवासभुवनेषु लसत्प्रभेषु, नानामणिप्रकरकल्पितभित्तिकेषु । ध्वस्तान्धकारनिकरेषु विभावरीषु, दीपावलिर्भवति मङ्गलहेतुरेव ॥७॥ यत्राऽतिमात्रमणि-मौक्तिक-शुक्ति-शङ्ख-बालप्रवालपटलीसुविराटजौघान्(?) । व्यापारिणां विपणिगानिति वीक्ष्य दक्षाः, प्रोचुर्बुवं जलनिधिर्जलमात्रशेषः ॥८॥ का वल्लभा मुररिपोस्त्वमिव स्वभर्तुः, कृत्यं त्वदास्यमिव धर्मधियां च कीदृग् । लज्जां त्वदीक्षणजितः श्रयते क एवं, प्रश्नोत्तरोक्तिकुशलामिह काऽप्यपृच्छत् ॥९॥
[सारङ्गः] श्रीसूरिराजचरणद्वयपुण्डरीक-स्फूज़ंद्रजोव्रजपवित्रितमध्यदेशे। .. स्वःस्पर्धिऋद्धिभरभासुरभूमिभागे, श्रीमत्यशेषसुखसद्मनि तत्र चङ्गे ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org