SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १३५ १३५ सद्धर्मकर्मविधिनीरधिपीनमीन-सद्ब्रह्मचारिचरणस्तिकसन्निवेशात् । संशुद्धबुद्धिवरऋद्धिविवृद्धिवृद्ध-बुद्धप्रसिद्धतरसिद्धपुरप्रदेशात् ॥११॥ प्रादुर्भवद्विविधभक्तिभराभिजात-रोमाञ्चकञ्चकितपेशलदेहदेशः । हर्षप्रकर्षकजिनीहृदयाधिनाथ-ज्योर्निरस्ततमसंतमसप्रवेशः ॥१२॥ पाथोजिनीप्रियतमप्रमितप्रमाणा-वर्त्तप्रमाणपरिवन्दितपूज्यपादः । विज्ञप्तिकां वितनुते बहुमूर्खमुख्यः, ....सनयं तथाहि ॥१३॥ यथाप्रयोजनं चात्र, निरपायतयाऽनिशम् । तर्कशास्त्रार्थदानादि-श्रेयःश्रेणीकुमुद्वती ॥१४॥ विकाशसम्पदं प्राप, प्राप्नोति च निरन्तरम् । श्रीतातचरणध्यान-कौमुदीनायकोदयात् ॥१५॥ ॥ अथ गुरुवर्णनम् ॥ सदा पिनाकमाली यो(?), ब्रह्मचारी गणाधिपः । भवान्तकृज्जयत्येष, सूरीन्द्रः कमलापतिः ॥१६॥ अनन्यसौभाग्यपदं त्वदीयं, विधाय वेधा वदनं व्रतीश! । शिल्पश्रमे किं नियमं चकार, न चेत्कथं तत्प्रतिरूपमन्यत्? ॥१७॥ आस्यं त्वदीयं परिपूर्णपौर्ण-मासीशशाङ्कोपमितं निरीक्ष्य । सम्यग्दृशां चारुविलोचनानि, विचक्षणानां कुमुदन्ति नेतः! ॥१८॥ आदाय पीयूषरुचः - - सारं त्वदीयं वदनं व्यधायि । स्वयम्भुवा भूरिविभूतिभासि, न चेत् कृशाङ्गी कथमत्रिदृग्जः? ॥१९॥ यौष्माकवक्त्रं यदि चन्द्रमण्डलं, क्यं चकोराश्चतुरा निरीक्षणे । सरोरुहं वा यदि तद् द्विरेफ-समानभावं वयकं श्रयामहे ॥२०॥ स्वस्तिश्रियां(याः) सद्मनि यस्य वक्त्र-सरोरुहे शीतरुचिश्चकार । किंवा समानन्दितसच्चकोरः, श्राक् स्पन्दते साधुवचोऽमृतं यत् ॥२१॥ तस्थौ मानससन्निधौ त्रिपथगां मूर्धा दधानः शिवः, पादस्थामपि तां वहन्मुररिपुः शेते स्म वारांनिधौ । मग्नो वारिरुहे कमण्डलुजलं धत्ते स्वयम्भूः स्वयं, मत्वा त्वत्प्रबलप्रतापदहनं मन्यामहे भाविनम् ॥२२॥ एतैः सुपर्वपतिकीर्तितकीर्तिपुञ्ज-ज्योतिर्निरस्ततुहिनाचलशीतपादैः । प्रोन्मादिवादिकुमुदोत्करतोदनोद-प्राज्यप्रतापतपनाल्पितचण्डपादैः ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy