________________
जुलाई - २०१४
१२९
तथा : शैशवी प्रणतिस्तात-चरणैरवधार्यताम् ।
श्रीमतां प्राज्ञपादानां, चाऽवधार्या च सा सदा ॥३७॥ सौभाग्यभाग्यनिधयः, सुक्त्युक्तिशुक्तिप्रधापयोनिधयः । श्री ....... विबुधाः, सुधाकरप्रवरकीर्त्तिभराः ॥३८॥ निरवद्यहद्यविद्या-जलधिसमुल्लासने सुधाघृणयः । .................., सकलविपश्चिच्छिरोमणयः ॥३९॥ पितृपादनिकटवर्ती-त्यादिश्रीसाधुसाध्वीनाम् । नत्यनुनती प्रसाद्ये, श्रीपितृपादैः परमकृपया ॥४०॥ अत्रत्या मुनयोऽपि च, सङ्घश्चेदिलपुरस्य सर्वोऽपि । उष्मापुरस्य च तथा, वजीलपुरनामधेयस्य ॥४१॥ वाघजी-सङ्घजी चेति, प्रमुखाः श्रावकोत्तमाः ।। प्रणमन्ति परमभक्त्या, श्रीपितृचरणान् प्रमोदेन ॥४२॥ लेखे यत् स्यादनौचित्यं, क्षन्तव्यं पितृभिश्च तत् । अलेखि लेखो विजय-दशम्यामिति मङ्गलम् ॥४३॥
॥ इति लेखविधिः ॥
पत्र खरडो नं. २ स्वस्तिश्रियं स शान्ति-दिशतु सतां यस्य दर्शनं नित्यम् । चिन्तामणिवच्चिन्तित-मर्थं सर्वं प्रसाधयति ॥१॥ ससुराः सुराधिपतयः, सुरगिरिशिखरे यदीयजन्ममहम् । हर्षाद् रचपयामासुः, स शान्तिदेवः शिवं तनुतात् ॥२॥
यः(ये?) प्रणमन्ति जिनेशं, दुस्तरभवसागरं सुराधीशाः । • भक्त्या तितीर्षव इव, प्रमोदमर्हन् ददातु स वः ॥३॥ श्रीमन्तं श्रीमन्तं प्रणत्य(म्य) तं विश्वसेननृपपुत्रम् । केवलकमलाकमला-कान्तं शान्ति जिनाधीशम् ॥४॥ तत्र श्रीमति लक्ष्मी-युक्ते श्रीराजधन्यपुरनगरे । . श्रीमद्वाचकपादा-म्बुजरेणुपवित्रिते रम्ये ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org