________________
१२८
अनुसन्धान-६४
आ प्रतिनी जे. नकल आपवा माटे कोबा-आ.कैलाससागरसूरि ज्ञानभण्डारनो खूब आभार मानीए छीए.
----- पत्र खरडो नं. १ (अपूर्ण २६ थी ४३)
................... नाम् ॥२६॥ रोचिष्णुरुचिररोचि-श्चामीकरकान्तिकान्तकरणानाम् । ' वरगुप्तियुक्तिरज्वा, नियन्त्रिताशेषकरणानाम् ॥२७॥ कम्रप्रणम्रपृथिवी-पुरन्दरै रचितसुपरिचरणानाम् । भावारिवारभीरुक-जगत्त्रयीजन्तुशरणानाम् ।।२८॥ त्रिभुवनभव[न]निरन्तर-दुरिततमस्तोमतिग्मकिरणानाम् । कल्याणकुवलयावलि-विकासनश्वेतकमलानाम् ॥२९॥ दुर्जेयजगत्रितयी-प्रसर्पिकन्दर्पदर्पहरणानाम् । पादप्रणतिप्रवण-प्राणिगणप्रणयकरणानाम् ॥३०॥ निःसारतरदुरुत्तर-संसारावारपारतरणानाम् । भुवनत्रयविद्रोहि-व्यामोहमहार्तिहरणानाम् ॥३१॥ चेत:प्रार्थितविलसत्-पदार्थसार्थप्रथावितरणानाम् । धैर्यस्थैर्यगभीरिम-प्रगुणगुणग्रामशरणानाम् ॥३२॥ दुःकर्मान्तरदुर्धर-तरद्विषद्धोरणीविशरणानाम् । दूरीकृतकन्दर्प-क्रूरतरशितप्रहरणानाम् ॥३३॥ विशदान्तःकरणानां, यशश्चयान्तर्हितेन्दुकिरणानाम् । कृतसुकृतिस्मरणानां, सुधियां श्रीतातचरणानाम् ॥३४॥ विशदानन्दनिदानं, प्रसादलेखं शिशुः समभिलषति । गर्जत्पर्जन्यागम-मुत्कण्ठी नीलकण्ठ इव ॥३५॥ तेन श्रीसौववपुः-परिकरनैरुज्यसूचनाचतुराः । सद्यः प्रसद्य हृद्याः, प्रसादलेखाः प्रसाद्या मे ॥३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org