SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२४. । अनुसन्धान-६४ विज्ञप्तिपत्रिका प्रपञ्चयति । यथा प्रयोजनं चाऽत्र - चित्रभानुभानुवितानविनिर्मितनिबिडतरतिमिरप्रमेये प्रभातसमये महेभ्यसभ्यसदसि श्रीसमवायाङ्गसूत्रवृत्तिवाचनप्रस्तुतवाचंयमवाचंयमिनीजनाध्ययनाध्यापन-सश्रद्धश्राद्धश्राद्धीजनोपधानोद्वाहनादि सुकृतकृत्यं सुकृतिकृतं प्रावर्तत प्रवर्तते च । तथा क्रमागते सर्वपर्वाखर्वगर्वापहारिणि पापव्यापसन्तापनिवारणवारिणि सुकृतततिनर्तकीनर्तनशतपर्वणि श्रीमदाब्दिकपर्वणि सक्षणनवक्षणप्राणिगणानल्पसंकल्पकल्पद्रुकल्पश्रीकल्पसूत्रवाचननिष्प्रतिमप्रभावप्रभावनाभवन-सप्तदशप्रकारजिनवरा विरचन-द्वादशदिवसामारिपटुपटहोद्घोषणपुर:सरसर्वसत्त्वाभयदानप्रवर्तन-चाक्रिकतैलिकादिकुकर्मनिवर्तनयाचकजनदानप्रदान-साधर्मिकजनवात्सल्यविधान-दुष्टाष्टकर्मकाष्ठदहनदहनायमानाऽसमानानेकमासक्षपण-पक्षक्षपण-दशका-ष्टाहिका-बृहत्कल्पा-ष्टमादिदुस्तपतपस्तपनादिपर्वधर्मकर्म सशर्म निरन्तरायं निरमायि । श्रीमद्देवगुरुध्येयतमनामधेयध्यानविधानात् श्रीमदर्चनीयचरणसौम्यदृशा चाऽपरम् । ___ अनवद्यविद्याविद्याधरं(?री?)परीरम्भविभूषितकरणानाम्, पुण्यप्रयोजनपरम्परोपार्जनकरणानाम्, स्फटिकविमलान्तष्करणानाम्, सहृदयहृदयाम्भोजवनविभासनसहस्रकिरणानाम्, धृतचतुरचेतश्चक्रवालचमत्कारकारणाचरणानाम्, विशदवृत्तरमारमणशरणानाम्, शिष्यसमुदयप्रदेशितविद्याभरणानाम्, श्रीमत्कोविदकुलकैरवविबोधनसुधाकिरणानाम्, श्रीमदर्चनीयचरणानां बहुदिनविलोक्यमानमार्गो लेखो ऽथैवाऽऽनन्दयिष्यति मन्मनः, तेन सौवङ्गारोग्यपरिच्छदवार्तवार्तापिशुनाः प्रसादलेखाः प्रसद्य सद्यः प्रसाद्या मन्मनोमोदसम्पत्तये । किञ्च- ममोपवैणवं प्रणतिरवधार्या । प्रसाद्ये च नत्यनुनती तत्रत्य पं. ज.ल.ग. ग. लब्धिवि. ग. वृद्धिवि. प्रभृतिनिकटवर्तिव्रतिवारणेन्द्राणाम् । अत्रत्य पं. सिं.वि. मु. कम.वि.यप्रभृतियतयः, तथा साध्वीरू.ई. सा. ला.ई. सा. न.श्री सा. चांपां सा. राऊश्री सा. सहजश्रीप्रभृतिसाध्व्यश्चा-ऽत्रत्यसङ्घश्च श्रीमदर्चनीयचरणचरणान् प्रति प्रणमन्तितमाम् । तथा __ पूर्वमितः सप्तपञ्चाशज्जल्पपट्टसहितो विज्ञप्तिलेख: प्राभृतीकृत आसीत्, तत्प्राप्त्युदन्तपिशुनो वलमानप्रसत्तिलेखः प्रसाद्यः । तथा मदुचितं कृत्यं प्रसाद्यम् । तथा वलमाना हिताशीः प्रसाद्या । तथा श्रीमन्महनीयनाम्नाऽत्रत्याः श्रीजिनरजनिजानयः प्रणताः सन्तीति मङ्गलम् । भाद्रपदासिततृतीयायाम् । तथा कियन्त चा(श्चा)त्रत्योदन्ताः पं. श्रीकु.स. ग. लेखादवधार्याः श्रीआर्यवर्यैरिति दिग् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy