SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ स्वस्ति श्रीमतिमातनोतु जगतां गाङ्गेयगेयच्छविच्छन्नाङ्गो भगवानभङ्गसुभगज्ञानप्रदीपोदयः । क्रीडा यस्य सुगन्धलुब्धमधुपैः प्रारम्भिरम्भासभाप्रोज्जृम्भाक्षिकटाक्षिलक्षत इव स्मेराननाम्भोरुहे ॥१॥ जीयान्मद्रसमुद्र इन्द्रसदृशः श्रीनाभिसर्वंसहापर्जन्याभिजनाम्बुजन्मतपनः श्रीमारुदेवो जिनः ।। यस्याऽऽस्यस्य समीक्षणादपि सदा प्रह्लादमापद्यते, बिम्बस्याऽपि मनः सतामिव सरित्कान्तः सितज्योतिषः ।।२।। यस्य स्फारतरं निरीक्ष्य वदनं पद्मानि पद्माकरं, गन्तुं लज्जितवन्ति सन्ति विजने पुर्या वने निर्ययुः । ते निर्वास्यवयस्यगौरमहसस्तत्राऽपि सन्दर्शनान्मन्ये सङ्कुचितानि तानि भगवद्भानुस्तनोतु श्रियम् ॥३॥ निश्शेषक्षितिपालभालफलकालङ्कारकारिक्रमद्वन्द्वाम्भोजरजा रजांसि हरतादर्हन्निशाधीशिता । यस्याऽऽस्येन निरस्यमानमहिमादाघज्वरीजातवाजानेऽब्जः कथमन्यथा प्रतिकृतिव्याजादसावम्भसि ॥४॥ यस्याऽम्भोजविराजमानवदनं विद्यावदानन्दनं, पुण्याम्भोनिधिनन्दनं शमवचःपीयूषनिःस्यन्दनम् । . - - - - - - - - - - - - - - . आमोदार्दितचन्दनं कुरु सदा दुष्कर्मनिष्कन्दनम् ॥५॥ .. तं श्रीमन्तं श्रीमन्तमनन्तदन्तिज्योति:पश्यतोहरकीर्तिनिकरक्षीरपूरप्रक्षालितत्रिभुवनभवनान्तरालं निर्मलशशिसकलकलविशालभालं विशदतमदेशनाकादम्बिनीजलविदलितसकलाकुशलकलिमलजम्बालजालं प्रणमद्भक्तिभरनिर्भरविश्वविश्वम्भराशिखरिवैरिवारशिरःशेखरहीरनिस्सरत्करनिकरनीरधारानिचयसिच्यमानचरणकल्पसालं श्रीमन्नाभिभूपालबालं श्रीभगवन्मरालं मनोमानसविलासिनं निर्माय श्रीमत्तत्रभवत्पादपादपद्मप्रसृमरमकरन्दसुरभीभूतभूतले श्रीमति तत्र, नवीननगरतो ला.वि.यो विनयावनतशिरस्कं हर्षप्रकर्षसंभृतमनस्कं सप्रीतिवचस्कं सरणरणकं यमुनाजनक[१२]मितावर्तवन्दनेनाऽऽभिवन्द्य विधिवद् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy