SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२२ अनुसन्धान-६४ यदि तद् भवेत्तदा प्रेषणीयम् । तदन्तः साङ्कानि कृत्वा पत्राणि क्षिप्यन्ते । अन्यथा किं क्रियते ? यान्यधिकारेण एकीभूतानि तान्येकत्र कृतानि सन्तीत्यवधार्यम् । ममाऽनुनतिरवसातव्या । ग.विज.विम. ग.ज. मु.विनयवि. मु.अमृतवि. साध्वीनां च यथार्ह नत्यनुनती ज्ञेये, ज्ञाप्ये च निकटवर्ति मु.अमृतकु. मु.रविकु.लानाम् । मन्नाम्ना च श्रीमज्जिनजगतीकुमुद्वंतीप्राणेश्वराः प्रणतिगोचरीकार्याः । किञ्च तत्रत्यसकलसङ्घस्याऽस्मद्धर्माशीर्वाच्येति मङ्गलम् ॥ (२) स्वस्तिश्रियं सृजतु नेमिजिनेन्द्रचन्द्रः प्राज्यप्रपञ्चितविभास्तवियोगितन्द्रः । कूर्मीकृतात्मरहितः सुधृतक्षमोऽपि चित्रं चकास्ति चतुराशयचेतसीदम् ॥१॥ तं श्रीमन्तं श्रीमन्तं निस्समानासमानमानवामेयमहिमानं गाम्भीर्याद्यनेकगुणगणराजमानं पापव्यापतापसन्तापसन्तप्तजन्तुजातकायमानं श्रीसमुद्रविजयभूपालतनुजन्मानं श्रीजिनसामजन्मानं मनोनर्मदातीरे रममाणं विधाय श्रीधलो० नगरतः, श्रीमति तत्र, लावण्यविजयस्सबहुमानमालापयति । यथाप्रयोजनं चाऽत्र - प्रातर्महेभ्यसभ्यसदसि श्रीवृन्दारुवृत्तिवाचन-प्रस्तुतयतिजनाध्ययनाध्यापनादि सुकृतकृत्यं सुकृतिकृतं - - - - - समजायत संजायते च । तथा क्रमागतं श्रीवार्षिकपर्वाऽपि निःप्रत्यूहव्यूह महामहःपुरस्सरं च समजनि श्रीमद्देवगुरुपादप्रसत्तेः । अपरं - श्रीमतां धीमतां बहुदिनविलोक्यमानवा लेख: प्राप्तः । समवसितं च तदन्तर्गतरुच्यवाच्यं हर्षप्रकर्षश्च समजनि । पुनरपि लेखाः प्रेष्या मन्मनोमोदसम्पत्तये । किञ्च - ममाऽनुनतिरवसेया । ज्ञाप्या चाऽन्येषाम् । अत्रत्य ग. र.वि. मु. तत्त्ववि. मु. लालवि. मु. लक्ष्मीवि.यादीनां नत्यनुनती ज्ञेये, ज्ञाप्ये च तत्रत्य पं. भ.कु. ग. ह. मु. पद्मकुशल प्रभृतियतीनाम् । तथा - तत्रत्यसकलसङ्घस्य धर्मलाभो वाच्यः । तथा श्रीपूज्यपादसत्को धरित्रीसत्कश्च कश्चिदप्युदन्तः समागतोऽद्यप्रभृति विशेषतो नास्ति । समागमने च यथावसरं ज्ञापयिष्यते । तथा ज्ञापना.दन्ता ज्ञापनीयाः। तथा मन्नाम्ना तत्रत्याः श्रीजिनरजनिजानयः प्रणमनीया इति भद्रम् । भाद्रपदसित १३ दिने । अत्यौत्सुक्यात् पत्रीयं लिखिताऽस्तीति समवसेयम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy