SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १२१ (१) स्वस्तिक्षीरधिनन्दनां प्रदिशतु श्रीमन्महोक्षध्वजस्त्रैलोक्याद्भुतवैभव: स्फुरति यत्कण्ठस्त्रिरेखाङ्कितः । वक्त्रेन्दूदयतोल्लसत्किततमध्यानामृताम्भोनिधे स्तस्थौ कम्बुरुपेत्य सैकततटे किं दक्षिणावर्तकः? ॥१॥ ___ तं श्रीमन्नाभिभूमीमण्डलाखण्डलाकुलकुवलयकाननविकाशननिशाकरं, निचिततमतम:स्तोमतिरस्करणार्णवार्णस्सम्पूर्णातूर्णतराम्बरतलचलनमन्थरपाथोधरोद्धरधोरणीरोधापगमनप्रसरत्करनिकरविभाकरं, त्रिभुवनभवनजनमनःकमनीयकामितसन्ततिसम्पूरणगीर्वाणसार्वभौमकारस्कर, संसारासारापारदुरुत्तारकान्तारपारवर्तिस्फूर्तिमत्तरदुर्गापवर्गपत्तनपथसंप्रस्थितानेकभविकसार्थश्रेयस्कर, दशदिग्वशावासवासनप्रगुणीभवत्स्वाभाविकगन्धबन्धुरगन्धफलीविकचमणीचकचक्रवालचारिमावहेलनप्रगल्भीभविष्णुस्वभूघनभूमपीतिमावगणितविलीनचारुचामीकर, श्रीमत्सौरभेयध्वजाभिधानतीर्थकरं प्रणतिपद्मिनीमधुकरं विधाय नी.नग.तः श्रीमन्मित्रक्रमकमलयामलोत्तंसितभूतले श्रीमति सोमधरीनगरे, दे. विमलस्सानन्दं सोल्लासं सरणरणकं समादिशति । यथाकृत्यं चाऽत्र - पूर्वपर्वतोच्चचूला(लां) चुम्बति भगवति भानुमति हर्षोत्कर्षवत्पर्षदि श्रीमदुत्तराध्ययनसूत्रवृत्तिवाचन-श्राद्धसाधुसाध्वीजनपठनपाठनादि धर्मकृत्यं समजायत संजायते च । क्रमागतं श्रीमदाब्दिकपर्वाऽपि निर्विघ्नतया महामहमबीभवत्। किंच श्रीमद्देवगुरुनामधेयध्येयमहामन्त्रस्मरणासाधारणकारणतः, तथा श्रीमत्सुहृत्सौम्यनयननिभालनानुभावतश्च । ..किञ्च - भुवनाद्भुतभाग्यसौभाग्यगाम्भीर्यधैर्यौदार्यचातुर्याद्यगण्यपुण्यवरेण्यगुणमणीगणसागराणां गगनतरङ्गिणीरङ्गत्तरङ्गसङ्गमावगणनप्रगुणवचनचातुरीरञ्जितानेकनागराणां स्वकीयधीरिमावधीरितसुधाशनसार्वभौमभूधराणां न्यक्षप्रतिपक्षलक्षासह्यशौण्डीरिमावमानितवितानप्रत्यवसानाधीशसिन्धुराणां श्रीमतां श्रीमतां प्रीतिपत्रिका राजमरालिकेव मत्करकमलक्रोडमलङ्कृतवती । ज्ञातं च तदन्तर्गतं समस्तं प्रमेयं, परमा सन्तुष्टिरजनिष्ट । - किञ्च - हरिविक्रमचरित्रं भवति तदा तदतः स्थाने स्थाने क्षिप्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy