________________
११८
अनुसन्धान-६४
प्रसूतवान् यं हि सहस्रपादः, पादेन पङ्गः स कथं शनैश्चरः। प्राप्नोति पुत्रो जनकस्य साम्य-मत्रोत्तरं नोऽजनि चित्रभानुः ॥१५।। भवत्प्रतापक्रमणे स्फुटीभवन्, सहस्रसङ्यैरपि पङ्गुरेहिभिः। । सूरीश! लोकस्पृहणीयरूपा-तिरेकसन्दोहनिवासभूमो(?) ॥१६॥ चेतांसि चात्यन्तचलानि लोके, प्रसिद्धिरेषा मरुतान्(त्) प्रवर्तते । भवद्गुणालीस्तवने ध्रुवीभवेत्, तामेव चेतो हरतीति मामकम् ॥१७॥ .. जगत्त्रये द्यौम(म)हती च तस्यां, देवास्ततस्तेषु महान् महेन्द्रः। त्वदीयदेहातिमनोहरश्रीं, द्रष्टुं स जातोऽपि सहस्रनेत्रः ॥१८॥ इति गुरुस्तुतिः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org