SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ११५ अथ गुरुवर्णनम् - दत्ते पतिश्चेद् रसनाः फणीना-मायुविधिर्वा धिषणश्च मेधाम् । काव्यस्य शक्ति दितिजन्मसूरि-स्त्वां स्तोतुमीशस्तदपीह किं स्याम्?॥१॥ पदोस्तले ते भजते च राग:(गो), विज्ञप्तुकामोऽरुणिमच्छलेन । मा(मेऽ)नादिकालीनमदास्पदानि, प्रणाशयाऽरागपदप्रदेहा(ह!) ॥२॥ समुल्लसन्त्यप्रतिमप्रभाभिः, प्रभासुराः पादपुनर्भवास्ते । जाने दशा - सुमतां समूह-तमोविनाशे दश दीप्रदीपाः ॥३॥ दशप्रकारव्रतिधर्ममाणा(?)-मादर्शकामाङ्कुशसञ्चयानाम् । उद्दण्डदण्डाः शमिमण्डलीना-मीशं स्फुरन्त्यङ्गुलयस्त्वदंड्योः ॥४॥ जगत्रयात्यद्भुत! तावकीन-गुप्तेन्द्रियत्वस्य हि शिक्षणाय । अत्युन्नतांहिव्यपदेशतः किं, कूर्मद्वयं नाथ! निषेवते त्वाम् ॥५॥ अदृश्यभावं समुपाश्रितास्ता[:], कुग्रन्थयः कर्ममया अपि श्राक् । त्वयि प्रभो! याः किमु तत्र चित्रं, गूढाः पदग्रन्थिगणा बभूवुः ॥६॥ वृत्तानुपूर्वे(व) सरले(लं) च जङ्घा-युग्मं गताधं भवतो विभाति । निभाल्य यं नूनमिभेन्द्रशुण्डा(ण्डा)-दण्डा श्रवन्ति स्वमदातिरेकम् ।।७।। तवोरुयुग्मं मुनिराज! रम्भा-स्तम्भद्वयीसन्निभतां दधाति । श्रीधर्मभूजानिमतल्लिकायाः, साम्राज्यमङ्गल्यनिमित्तमुच्चैः ॥८॥ - अतीव गुप्ते नितमा सुवृत्ते, अपि स्थिते मञ्जुलजानुनी ते । कथं कथं संयमिनामधीशा-ऽऽश्चर्यं मदीये महदेतदन्तः ॥९॥ कटीविलासं जनकोटिकोटी-दृष्टिप्रमोदप्रदमद्भुतं ते । ध्रुवं विभाव्य व्रतभूमिभर्तः!, सिंहो वनान्तर्धमति त्रपातः ॥१०॥ त्वन्मध्यदेशः कृशतां बिभर्ति, प्रकाममित्येवमवेत्य नूनम् । मत्तोऽप्यधःस्थस्य सदा पदादे-र्न मध्यमत्वं मम तत्कुतस्तु ॥११॥ नाभीनदे निम्नतरे निशंस-ल्लावण्यनिस्तुल्यजलप्रपूर्णे । पालीवनालीतुलनां प्रयाति, रोमावली स्थि(स्नि?)ग्धतमा तवेश! ॥१२॥ वक्षःस्थली ते कथयत्यभिख्या-मास्थानभूमिर्विपुलेव रम्या । श्रीधर्मभूमीरमणस्य भास्वत्-सौवान्वयाम्भोरुहभास्कराभ! ॥१३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy