SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११४ अनुसन्धान-६४ यदङ्गनानामसरूपरूपं, दृष्ट्वाऽन्यरूपश्रियमाददानम् । . कामः सकान्तः शरणीचकार, ता एव तूर्णं ननु भीतभीतः ॥२३॥ श्रीमद्गुरूपासनबद्धरङ्गा, सुरा इव श्राद्धवरा यदीयाः ।। सदामृतेहाः क्षितिमस्पृशन्त-स्तथा पदात्यद्भुतसौख्यलीनाः ॥२४॥ जनांश्च यस्मिन् विपिन:(न)प्रदेशान्, व्यालोक्य सन्पुण्यफलोदयाढ्यान् । प्रमोदमेदस्विलता भजन्तो, केषां न चेतांसि सुमाभिरामाः ॥२५॥ अकिञ्चनत्वं शमिनां समूहे, सव्याजता भक्तिभरप्रयोगे। पानीयपूरेऽपि च नीचमार्गा-नुयायिता यत्र तु नैव लोके ॥२६॥ विश्वत्रयाख्यातवराभिधाने, मनुष्यसम्पूर्णरमाभिधाने । श्रीतातपादाम्बुजसन्निधाने, श्रीराजिते तत्र पुरे प्रधाने ॥२७॥ . यत्राऽऽस्तिका श्रीगुरुभक्तिरागै-त्रातिगै रञ्जितचित्तवस्त्राः । धनैश्च धान्यैर्नितरां समृद्धाः, शुद्धाः सुशीलाः सततं वदान्याः ॥२८॥ श्रीतातपाददर्शन-मनोरथाऽपूरिताङ्गिगणचङ्गात्। , श्रीनागपुरद्रङ्गात्, तस्मादहितैरकृतसङ्गात् ॥२९॥ सद्भक्तिभराक्रान्त-स्वान्तः प्रादुर्भवत्प्रणयकान्तः । विनयावनम्रमौलि-मौलीकृतचारुकरयमलः ॥३०॥ विधिवत्तरणिप्रमिता-वतैरभिवन्दनैः समभिवन्द्य । चारित्रविजयः शिष्यो, विज्ञपयति कृत्यमिह च यथा ॥३१॥ प्राचीदिग्भालस्थल-कौङ्कमतिलकाभभानुमत्युषसि । सुमहेभ्यसभ्यभविजन-राजिभ्राजिष्णुतरसदसि ॥३२॥ श्रीमच्छान्तरा(र)साधीश-राजधानीसधर्मणः । श्रीअमुकाङ्गसूत्रस्य, व्याख्यानादिककर्मणि ॥३३॥ जायमाने च सञ्जाते, परिपाट्यागतं तथा । श्रीमद्वार्षिकपर्वाऽपि, पर्वकृत्यपुरस्सरम् ॥३४॥ अभवद् विघ्नसङ्घात-वियुतं संयुतं महैः । श्रीतातनामनिस्तुल्य-मन्त्रस्मृत्यनुभावतः ॥३५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy