SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ १११ तान् श्रीजिनान् नाभितनूज-शान्ति-वामेय-सिंहाङ्कजिनाधिनाथान् । नीत्वा नुतेर्मार्गममेयमोद-कृत्प्रातिहार्यप्रभुतासनाथान् ॥३॥ स्वस्तिश्रीसुखदं सदा गतमदा(दः) श्रीशान्तिनाथं मुदा, वन्देऽहं विबुधावलीनतपदं श्रीवि[वै?]श्वसेनं सदा । कल्याणावलिवल्लिपल्लवकरं कारुण्यकेलीगृहं, विश्वानन्दपदं सदोदयमयं मोहान्धकारे रविः(विम्) ॥१॥ यः स्वस्तिलक्ष्मिललनामधुपीपरीतं, मातङ्गराजगतिमङ्ग समीक्ष्य हर्षात् । मेध्यं सदा कविवरा प्रवदन्त्यहो द्राक्, श्रीमान् स शान्तिरचिरातनुजः सुखाय ॥२॥ स्वस्तिश्रियं दिशतु वो जिनभानुमाली, श्रीवैश्वसेनिरनिशं शिवकृन्नराणाम् । अप्युल्लसत्सकलभूतिभराभिरामः, चित्रं सदा भव इहाऽभवदीश्वरो यः ॥३॥ भीतिर्ममाऽत्र गगने वसतस्तमोजा, भूमौ च केसरिभवा प्रबला सदोग्राः(ग्रा)। . सञ्चिन्त्य चेतसि निजे हरिणोऽयमीशं, लक्ष्मच्छलादविरतं भजतेऽपनेतुम् ॥४॥ नित्यं वनाश्रयनिवासमनङ्ग! येऽमी, निघ्नन्ति शुष्कतृणनिर्झरनीरखल्व(वृत्तिम्?) । तेषां गतिः परभवे भविता मृगांक: (गः का), प्रष्णुं(ष्टुं) यमीशमिति लक्ष्ममिषात् किमे(मै)त ॥५॥ दोषाकराच्छशधराद् घनजाड्यभाजो, नित्यं कलङ्कमलिनान्नम(न)जुत्वदुष्टात् । मुक्तिर्ममाऽऽशु मुनिराज! विधेह्यमुष्मात्(), विज्ञप्तुमेणमिह(मेण इह) लक्ष्ममिषात् किमे(मै)त ॥६॥ गवां विलासैरमृतद्रवैकः, सम्प्रीणयन् विश्वविशेषमप्यलम् । • कलाभि..... तमस्तति, योऽभून्मृगाङ्कः किल साम्प्रतं तत् ॥६॥ गवां विलासैरमृतद्रवैकः, प्रीणाति विश्वावलयं समस्तम् । तमस्ततिध्वंसनबद्धकक्षो, युक्तं जिनेन्दुन्नु यो मृगाङ्कः ॥७॥ पाठान्तरम् ।। दृग्गोचरीकृत्य सुदृग्समूहैः, सर्वैरहपूर्विकयाऽर्चनीयम् । सदृष्टिषु प्राग्रहरः कुरङ्गः, किं पर्युपास्तेऽङ्कनिभाद् यमीशम् ॥८॥ अह्नाय मातङ्गपदापहारिणी(णं), तथा महानादपराक्रमाढ्यम् । विलोक्य यं सौवपति मृगोऽङ्क-व्याजादुपेतः किमु सेवनाय ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy