________________
जुलाई - २०१४
१०९
सान्द्रानन्दनमन्नरेन्द्रविबुधाधीशालिमौलिप्रभाभास्वत्(द्यत्प्रतिबिम्बदम्भित इवाऽनेकस्वरूपो विभुः । उद्धर्तुं जगदेव [यो] भवमहापङ्कात् कृपावारिभिः, श्रीमच्छांवान(च्छासन)नायकः स तनुतां श्रीवर्द्धमानः श्रियम् ॥४॥ श्रीवर्द्धमानस्य जिनस्य यस्या-ऽप्यासाद्य विद्यां हृदि वर्द्धमानाम् । भवन्त्यनेके भुवि वर्द्धमानो-दयास्तदाराधनसाधनस्था(स्थाः) ॥५॥ क्षमावतामीश! मम प्रदेहि, क्षमागुणं येन भवाम्यनर्घ्यः । हस्तीव विज्ञप्तुमनाः किमेवं, लक्ष्मच्छलाद् यं मृगराट समेतः ॥६॥ यस्मादनन्तेन बलेन शालिनः, स्फूर्जद्बलं याचितुमाजगाम । विजेतुकामः शरभं स्वशत्रु, कण्ठीरवोऽङ्कव्यपदेशतः किम्? ॥७॥ स्वप्नेऽपि सर्वेष्वपि मुख्यनो(ता) मे, माताऽमुमेव प्रविशन्ति(न्त)मास्ये । अपश्यदस्थापयदात्मपार्श्व-मतः किमङ्काङ्गगजद्विषं यः ॥८॥ मृगारिनाम्नाऽपशदेन मेऽलं, गजारिनामैव सदस्तु देव! । सुगोत्रदायिन्नितु(ति) नक्तुमागात्, सिंहो यदभ्यर्णमिवाऽङ्कलक्षात् ॥९॥ स्वस्तिश्रियां परं धाम, काममक्षयकामितम् । अतुच्छं यच्छतान् (यच्छता)च्छीमत्-त्रैशलेयक्रमद्वयम् ॥१०॥
॥ इति वीरस्तुतिः ॥ स्वस्ति[श्री]सदनं विनम्रदिविषत्कोटीरकोटीघटज्योत्स्नाम्बुस्नपितोल्लसत्पदपयोजन्मद्वयश्रीर्जिनः । निर्जित्य त्रिजगत्समक्षसुमहदुःखाकरं यः स्मरं, द्वैष्यं लक्ष्ममिषाद् बिभर्ति मकरं केतुं तदीयं ध्रुवम् ॥१॥ स्वस्तिश्रीभवनस्य यस्य जगतीभर्तुः द्विपादीपुरःक्रीडन्नाकिनिकायनायकशिरःस्रस्ता(स्त)प्रसूनवर्षोः । व्याख्यापर्षदि निर्विशेषमुदयत्तत्सङ्गरङ्गच्छलात्(द्), जायन्ते स्वरसेन भोगिसुभगाः सर्वेऽपि वन्दारवः ॥२॥ पुष्पदन्तमभिनम्य विनिद्रा, नन्दताऽऽप्य नवमं नवमं तम् । वीतरागमथअवेतमनन्तं(?), ब्रह्मवीर्यसुखदर्शनरूपम् ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org