________________
१०४
स्वस्ति श्री मुकुरस्थलान्यनुदिनं यत्पादकामाङ्कुशान्, नम्रानेक नरा-ऽमरा-ऽसुरवराः प्रोत्तेजयन्ति ध्रुवम् । भूयिष्ठैर्मुकुटोपटङ्किविलसन्माणिक्यशाणोपलै
र्मालिन्यभ्रममालिनः
प्रसृमरैर्मोलीन्द्रनीलांशुभिः ॥२॥
स्वस्त्यब्धिजा यद्वदनारविन्द - सरस्वतीमन्दिरमाप्य मोदम् ।
दधावसाधारणमात्मशत्रु- स्थानोपलब्ध्येव सदालिसेव्यम् ॥३॥
स्वस्त्यब्धिजा यमधिपं भजति स्म मोदान्- नम्राऽमरा - ऽसुर-नरावलिसेव्यमानम् । बद्ध्वा(ह्वाः)दरं निजसुतस्य जनार्त्तिदस्य, प्रध्वंसने किमुत सान्त्वयितुं स्मरस्य ॥४॥ स्वस्त्यब्धिजा सौवपतिभ्रमाद् यं, शिश्राय सच्चक्रविराजमानम् ।
• अनुसन्धान-६४
तथा जगन्नाथमदिष्टकूट-विघट्टकं व्यूढबहुक्षमाभरम् ॥५॥ परपङ्कजा तेऽरतिं वलक्षोभयपक्षशाली ।
विनिर्मिमाणः
सन्मानसे स्वं रचयन्निवासं, यो हंसवद् भाति युतो मराल्या ||६|| समीरणे गन्धगुणस्य सत्ता-मसाधयत् स्वश्वसितानिलेन यः । घ्राणेन्द्रियाध्यक्षसुमाद्युपाधि-व्यपेतसौगन्ध्यभृता जगन्नृणाम् ॥७॥ प्रोद्भूतसान्द्रतरपापभरं स्मरा (र: ?) स्त्री- भूयः प्रभूतभवभृत्परिपीडनेन । मन्ये निवेदयितुमाश्रितवान् मुनीशं, किङ्केल्लिवेषविगलद्वृजिनं जिनं यम् ॥८॥ यद्देशनावनितले त्रिदशैर्विकीर्ण - श्चञ्चत्प्रसूननिकरः परितो व्यराजत् । श्रीमज्जिनाननविधोविलसत्सदस्या ऽऽनन्दोदधेः किमुदितोज्ज्वलमौक्तिकाली ॥९॥ आकण्ठपीतनवयद्वचनामृतेन, तृप्तं निकाम [म] मरप्रकरं निरीक्ष्य । जानन् सुधां करभवैर्ननु भारकल्पां, चन्द्रः क्षितौ क्षिपति तस्य करे धृतां स्वाम् ॥१०॥ यस्य प्रभोरुभयतः शरदभ्रशुभ्र - भ्राजिष्णुभाभर धरौ वररोमप (पि) च्छौ । सद्गण्डमण्डलत_पतियुग्मपिण्डी- भूतांशुपल्लवचयाविह रेजतुः किम् ॥ ११ ॥ शश्वत्त्रिकालविदुपासनसादराणां, स्वः सद्मनां सुरगिरिः स्वनिवासभाजाम् । आगाद् विधातुमिह शुद्धमिभारिपीठे, यस्मिन् विभौ स्थितवतीति वितर्कयन्ते ॥१२॥ अण्वादिसूक्ष्मतमभावविकाशनेऽपि, सर्वज्ञा (ज्ञ) राट् ! घटय मां यदुशक्तियुक्तम् । विज्ञप्तुमित्युपगतस्तमसामराति-र्भामण्डलस्थ (च्छ) लधरः किल यत्समीपम् ॥१३॥ दिव्यध्वनिर्दैवतदुन्दुभिर्यत् - पुरस्तथा व्योमनि दंध्वनीति । यथा स्थिरीभावमुपैति शब्दा- द्वैतप्रवादिप्रकरप्रतिज्ञा ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org