________________
जुलाई - २०१४
१०३
गुरुः कल्पवृक्षो गुरुः कामधेनुः, गुरु कामकुम्भो गुरुर्देवरत्नम् । गुरुश्चित्रवल्ली गुरुः कल्पवल्ली, गुरुदक्षिणावर्तशङ्खः पुनर्यः ।।७५।। गुरुर्यो निशेशो गुरुर्यो महेशो, गुरुर्यः सुराद्रिः गुरुर्यो हिमाद्रिः । गुरुश्चक्रपाणिर्गुरुवज्रपाणिः, गुरुः पुष्करावर्तधाराधा(ध)रो यः ॥७॥ गुरुः क्षीरसिन्धुर्गुरुः सिद्धसिन्धुः, गुरु(:) पद्मबन्धुर्गुरुर्वेदगर्भः । गुरुर्वेश्मरत्नं गुरुर्गन्धहस्ती, गुरुः केशरी यो गुरुस्सार्वभौमः ॥७८॥ तुभ्यं नमः सकलजन्तुसुरक्षकाय, तुभ्यं नमः सुखदकल्पमहीरुहाय । तुभ्यं नमः शिवदधर्मसुसञ्चिताय, तुभ्यं नभः प्रवरपण्डितपूजिताय ॥७९॥ तुभ्यं नमो मुनिपमण्डलमण्डनाय, तुभ्यं नमो वरवपुर्घ(र्धर!)शर्मदाय । तुभ्यं नमो विशदशास्त्रविधायकाय, तुभ्यं नमो नयविदे गणनायकाय ॥८०॥ मिथ्यानिशाटे रवितुल्यतापो, धैर्येषु मेरूपमगौतमाभः । शीलेन जम्बू(म्बुः) सुखदः सुरागः, पाथोधिगाम्भीर्यगुणैर्गणेशः ॥८१॥ भ्रान्त्यारेकादुरितविमुक्तः, चातुर्यज्ञो वरमतियुक्तः । श्रीमति(मान्) साधु[:] सुमतिसमुद्रः, सारङ्गास्यः शुभतरमुद्रः ।।८२।। साधुभवृन्दे चन्द्रसमानो, गजितनादस्तजितमानो(नः)। दुःखदवाग्नौ शीतलपाथा(थो), यच्छतु सौख्यं मे गणनाथः ॥८३॥ इत्याद्यनेककोविद-परम्परावर्ण्यजाग्रदवातैः । स्फूर्जद्यशोऽवदातैः, श्रीतातैर्विहितजनसातैः ॥८४॥ स्वशरीरसारपरिकर-निरामयत्वाद्युदन्तसंयुक्तम् । तुष्ट्यै प्रसादनीयं, प्रसादपत्रं प्रसद्य शिशोः ॥८५।। किंञ्च श्रीप्रभुपादै-विहितानेकप्रवादिदुर्वादैः । नतिरवधार्या स्वशिशोः, सानुप्रणतिः प्रसाद्या च ॥८६॥
... ॥ इति श्रीलेखविधिः ।। स्वस्तिश्रीप्रमदा विनम्रदिविषद्वृन्दैः पदाब्जस्थिता, प्रल्हादादभिषिच्यते स्म नितमां प्रोद्यत्किरीटैर्घटैः । निर्यद्रत्नमयूखमञ्जरिजलभ्राजिष्णुभिः किं जगद्भर्तुर्यस्य पदोन(न)खांशुकुसुमश्रेणीमनोहारिभिः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org