SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०२ अनुसन्धान-६४ अथ श्रीगुरुराजदृग्वर्णनम् - सरस्वती चेद् विदधाति वासं, मदीयवको धिषणां गुरुश्चेत् । ददाति काव्यश्च कवित्वशक्ति, तथाऽपि न स्तोतुमलं दृशौ ते ॥६२॥ प्रपेदिवांसौ शरणीयमीशं, सारङ्गपोतौ सततं भवन्तम् । चक्षुर्मिषाल्लुब्धकभीतभीतौ, नभोऽङ्गणे नूनमिलातले च ॥६३॥ . ध्वनिमूंगाणामपि मोदकस्ते, संस्तूयते तैर्ननु युक्तमेतत् । दृक्कृष्णसारौ कथमन्यथा ते, सदाऽपि सेवां कुरुतः शमीन्दो! ॥६४|| जगत्रयाभ्यर्च्य! तवाऽक्षियुग्म-द्वयेन सान्द्रं विरचय्य मैत्रीम् । राज्ञः प्रसादः कुमुदां समूहैः, सम्प्राप्यते किं जडजैरपीह? ॥६५॥ विनीलराजीव-चकोर-कैरव-श्रियं समादाय विनिर्मितं तव । जाने विधात्रा नयनद्वयं दिने, नि:श्रीकते(तै)षां किमिवेक्ष्यतेऽन्यथा? ॥६६।। कृत्वेव नेत्रद्वितयेन साकं, स्पर्धा(र्की) शुभं(भां?) ते महनीयमूर्ते! । चिन्वन्ति दीप्ताग्निकणा(णां)श्चकोरा, जिहासवोऽसून् ननु तापभाजः ॥६७॥ जगत्त्रयीमङ्गलहेतुतावके-क्षणद्वयेनाऽऽप्तसमानभावतः। बिसारयुग्मं शुचि मङ्गलाष्टके-ऽन्तःपात्यभूत् सौच(व)कुलाश्यपीह किम्? ॥६८॥ शुभेतरार्थप्रथनप्रवीणा, त्वदृ(?)ष्टिरेखा श्रुतिपारमाप्ता। मन्ये मुनीशान्तरदृष्ट्यसूया-वशेन नैर्मल्यवती च जज्ञे ॥६९॥ नाऽम्भोभरैर्नाऽपि च चन्दनद्रवै-र्न पार्वणेन्दोः किरणैः समीरणैः । यः शाम्यते पातकतापविप्लवः, त्वत्सौम्यदृष्ट्या ननु भक्तभूस्पृशाम् ॥७०॥ कूर्मीदृगौपम्यजुषौ(षो)स्त्वदक्ष्णोः, प्रसादपीयूषरसानुविद्धैः । या वीक्षणे मे भवतीह तुष्टि-निधानलाभेऽपि हि सा कुतस्त्या ॥७१॥ जडाश्रयादर्णवतः प्रसूते-रुक्तिर्वथैव ध्रुवमिन्दिरायाः । त्वत्सौम्यदृष्टिप्रभवा तु साऽत्र, परैः सहस्रैरनुभूयते जैः ॥७२॥ त्वल्लोचनस्फूर्तिमतीव रम्यां, मुहुर्मुहुः श्रीमुनिराज! द्रष्टुम् । शतानि नूनं नयनाम्बुजानां, दधे दशेन्द्रः सततस्मितानाम् ।।७३॥ सः श्लाघनीयः समय स एव, सुवासरः सोऽवसरो वरीयान् । यस्मिन् भविष्यत्यनगारराट्! ते, प्रसन्नदृग्दर्शनजं सुखं मे ॥७४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy