SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०० अनुसन्धान-६४ भयान्विता अप्यभया सदामा-श्लिष्टा अपि ध्वस्तसमामयाश्च । सुशीलभावाश्च सदानशीला, भावाभिरामा सदुपासकौघाः ॥३७॥ श्रद्धावान्(वत्?) पुरुषोत्तमा भुवि वराः पुण्याकराः पावनाः, शुद्धाचारविचारसारमतयः सिद्धान्तशास्त्रे रताः । साधूनां सुखकारका[:] श्रुतिपरा[:] श्रीदोपमास्सर्वदा, . राजन्ते रविमण्डलाभवपुषो द्रव्येश्वराः कोविदाः ॥३८॥ अकिञ्चनत्वं शमिनां समूहे, सव्याजता [भ]क्तिभरप्रयोगे । पानीयपूरेऽपि च नीचमार्ग-मुपायिता यत्र तु नैव लोके ॥३९॥ तत्राऽस्ति व्रतिपुङ्गवो गणपतिः शक्रेन्द्रदेवोपमः; वैयावृत्त्यविधायका मुनिवरास्ते सन्ति सामानिकाः । धर्मध्यानरतास्सदा सुखकराः श्रद्धालवो देवताः, सर्वज्ञोदितकारिका व्रतपरा:(रा) देवाङ्गनाः श्राविकाः ॥४०॥ विश्वत्रयाख्यातवराभिधाने, मनुष्यसम्पूर्णरमाभिधाने । , श्रीतातपादाम्बुजसन्निधाने श्रीराज(जि)ते तत्र पुरे प्रधाने ॥४१॥ अथाऽत्र नगरवर्णनम् - अनपरधनदां वदान्यमान्य-स्थितिशुचिवैश्रमणैः श्रितस्य नैकैः । कथमिव न पुरो वदन्ति यस्य, स्फुटमलकामलकायमानलक्ष्मीम् ॥४२॥ सुरपतिनगरी विमानलक्ष्म्या, भुजगपुरी सुभगैश्च भोगिवृन्दैः । स्फुटमिह नरलोकसारसीमा, त्रिभुवनसारमयं ततो यदस्ति ॥४३॥ जलधिरमितशखसु(शुक्तिरत्नै-गिरिरिव सारतराभिरौषधीभिः । वनमिव कुसुमोत्करैः स्फुरद्भि-र्भुवनमिवेहितसर्वलाभतो यत् ॥४४॥ न भुजगपुरी नगरी गरीयसीयं, न खलु तथाऽस्ति पुरं पुरन्दरस्य । नवनवविभवैर्यथा प्रथाव-द्यदिह विलासमयं स्वयं चकास्ति ॥४५॥ प्रियगृहपदवी दवीयसीव, स्तनजघनोद्धृतभारमन्थराणाम् । भवति च मणिकुट्टिमेषु यस्मिन्, मृदुचरणन्यसनैर्मृगेक्षणानाम् ॥४६॥ किं नुप(पू)रं? किमुत सारसनं वरेण्यं?, किं मौलिरत्नमुत कुण्डलमण्डलं वा? । किं दाम मौक्तिकमुत? क्षितिचञ्चलाक्ष्याः संवीक्ष(क्ष्य) वप्रमिति यत्र वितर्कयन्ति ॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy