________________
.
१४
अनुसन्धान-६४
अनन्यसौजन्यगुणाभिरामा, मोदप्रमोदामृतसागराभाः । श्रीजित्पदोपासनवासनाढ्या, आमोदयुक्सागरसंज्ञिता ज्ञाः ॥१२७(१२८)। अमन्दरागा अपि मन्दरागा-नुसारिधैर्याः सुकृतैकधुर्याः । श्रीजिद्भुजिष्या जयसुन्दराख्या-स्तपस्विनो विज्ञपुरन्दराश्च ॥१२८(१२९)। श्रीजित्सपर्यैकलसत्समीहाः, सीहाभिधाना विजयोपपन्नाः । नियोगिवीथीतिलकोपमाना, नानार्थभाजस्तिलकाभिधानाः ॥ . . . प्रेमोपयुक्ता विमला द्विधाऽपि, क्रियाविधौ श्रीगुरुदुर्गपालाः ॥१२९(१३०)।
॥ षट्पदी ॥ इत्यादयः श्रीगुरुराजराजत्-पदाम्बुजोपासनराजहंसाः । तेभ्यो मदीयाऽनुनतिर्नतिर्वा, प्रसादनीया क्रमतः समेभ्यः ॥१३०(१३१)। किञ्च – इन्द्रविजयाख्यविबुधाः, सुमेधसो मेध्यशीलसम्पन्नाः । लालविजयाभिधाना, ज्ञानाभ्यासप्रवणहृदयाः ॥१३१(१३२)। बुद्धिविशुद्धनिसर्गा बुधवर्या ऋद्धिविजयनामानः । विबुधाः सुखविजयाख्याः, सुधियः सुखदा विनयविधितः ॥१३२(१३३)। ज्ञानविजयाख्यगणयो, गणयोऽपि च रूपविजयनामानः । अतियतिमतिरतिगतयो, मुनयो मतिविजयसञ्जाश्च ॥१३३(१३४)॥ सुस्था ज्येष्ठस्थित्या-मित्याद्याः साधवोऽत्र गुरुचरणान् । उपवैणवं स्तुवन्तो, नमन्ति तत्प्रणतिरवधार्या ॥१३४(१३५)। अत्रत्यः सङ्घोऽपि च, भक्तिव्यक्तिप्रयुक्तसद्युक्त्या । नमतितरां नितरामिति, विज्ञप्तिं चाऽपि वितनोति ॥१३५(१३६)। धन्यः स एव दिवसः, समयोऽपि स एव रसमयो भविता । भवितारकगुरुराज-क्रमकमलस्पर्शनं यत्र ॥१३६(१३७)। पादावधारणा त-त्करुणावरुणालयैर्गणाधीशैः । फलवत्ता बलवत्ता-तिथित्वमानी सतामेषा' ॥१३७(१३८)।। ऊनमनूनं नूनं, यल्लेखेऽलेखि मुग्धबुद्ध्या तत् ।
क्षन्तव्यमेव सर्वं, सहायतः सूरयः प्रोक्ताः ॥१३८(१३९)॥ १. विज्ञप्तिः इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org