SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ जितेन्द्रियं संयमिनं सभासु, स्वैरं समाश्लिष्यति ते सुता श्रीः । इत्यौचिती सा किमु यस्य कीर्ति-र्ययावुपालब्धुमिवाऽब्धितीरम् ॥११५(११६)॥ गुणानुबद्धोन्नतवंशमेन-मासाद्य यं शीर्षधृतेन्दुकुम्भा । कीर्त्तिर्नटीव प्रकटीभविष्णु-मनोविनोदाय भवेन्न केषाम्? ॥११६(११७)॥ यथा यथा यस्य गुणाधिभर्तुः, कीर्तिर्धरित्री धवलीकरोति । तथा तथा शत्रुजनाननानि मालिन्यमायान्त्यतिचित्रमेतत् ॥११७(११८)॥ एषा क्षितिश्चन्दनजै रसौधे-रालिप्यते वा परिपूर्यते वा । क्षोदैः सुसूक्ष्मैः शुचिमौक्तिकानां, तथा प्रथावद् घनसारसारैः ॥११८(११९)॥ किं प्लाव्यते दुग्धपयोधिना वा? किं भूष्यते वा कुमुदैः सकुन्दैः? । यस्याऽच्छकीर्तिं जगति स्फुरन्ती, समीक्ष्य दक्षा इति तर्कयन्ति ॥११९(१२०)। युग्मम् ॥ चैत्रीयचन्द्रातपजित्वरी यत्-कीर्तिर्धमन्ती भुवनत्रयेऽपि । रात्रिंदिवं स्त्रीत्वसहोद्भवं यद्, भयं क्वचित् प्राप न चित्रमेतत् ॥१२०(१२१)॥ तैस्तातपादैर्गणशीतपादै-र्गतावसादैविजितोग्रवादैः । नतिस्त्रिसायं विगतप्रमादै-र्ममाऽवधार्या विहितप्रसादैः ॥१२१(१२२)। तथासौजन्यसर्वस्वनिधिस्वभावा, भावावबोधानुगता गुरूणाम् । . सुधामुधाकारिवचोविलासाः श्रीदेवपूर्वा विजयाः सुधीशाः ॥१२२(१२३)। श्रीजिन्नियोगाधिकृताभियोग-प्रयोगदक्षा अपि धर्मपक्षाः । श्रीजित्प्रसत्तिं प्रति लब्धकक्षाः, क्षमाः क्षमाद्याविजयाः सदक्षाः ॥१२३(१२४)॥ श्रीपूज्यपादाब्जरसैकलीन-पीनप्रमोदोदयिचित्तभृङ्गाः । गङ्गातरङ्गामलशीललीलाः श्रीमेघपूर्वा विजया बुधेन्द्राः ॥१२४(१२५)॥ गभीरिमग्रस्तसमुद्रमुद्राः, सद्धीरिमध्वस्तधराधराभाः । विद्वद्वरा वीरमसागराह्वाः, प्रह्वा गणाधीश्वरसेवनेषु ॥१२५(१२६)। वाक्चातुरीरञ्जितभूरिनागरा, गीतार्थपार्थाश्च विनीतसागराः । सुधाप्रपासन्निभसूरिराट्कृपा-रसप्रसङ्गाधिगतप्रसत्तयः ॥१२६(१२७)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy