________________
जुलाई - २०१४
किञ्च -
कृतापराधोऽपि जनो निजोऽयं, कृपाकटाक्षैरवलोकनीयः । पाल्यो भवेद् वस्तुविदूषकोऽपि, न मूषकः किं गणनायकस्य ॥१३९(१४०)।
॥ इति विज्ञप्तिरहस्यम् ॥ भृत्योचितहितकृत्य-प्रकाशि पत्रं प्रसादनीयं द्राक् । एषोऽनुचरश्चाऽऽर्हद्-ध्याने स्मृतिमात्रमानेयः ॥१४०(१४१)। सरसा सालङ्कारा, सुललितपदपद्धतिर्घना(न?)श्लेषा । श्रीजिष्णुसम्मतिसुखं, कलयतु विज्ञप्तिकमलाक्षी ॥१४१(१४२)।
संवत १७६७ विजयदशम्यामिति श्रेयः ॥ इति श्रीगुरुविज्ञप्तिलेखः ॥ प्रथमादर्शोऽयं लिखितः पण्डितलालविजयगणिभिः श्रीउदयपुरे ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org