SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ तरणिप्रमितावर्त्त-प्रवर्त्तितानिन्धवन्दनन्यासैः । विनयनयगर्भसूत्रित-विधिक्रियाप्रक्रियाभ्यासैः ॥६४(६५)॥ भूयो भूयोऽभिनमन्मौलिः, शीलितगुरुस्तुतिः सततम् । वृद्धिविजयो विनेयो, विज्ञप्तिं विरचयत्येवम् ॥६५(६६)॥ प्रयोजनं चाऽत्र यथा प्रथावत्-प्रभाप्रसारादरुणेन तावत् । पर्युल्लसत्त्विङ्घृसुणाङ्गरागो, प्रकल्पिते वासवदिग्विभागे ॥६६(६७)। शूच्यन्तभेद्यप्रसृतान्धकार-प्रकारविस्तारनिकारकारी । किमेष निश्शेषविशेषदर्शी, जगत्प्रदीपः प्रकटीबभूव? ॥६७(६८)॥ करप्रसङ्गात् किमु पद्मिनीनां, निद्रापनोदी कमिता विनोदी? । किं वा तम:कोलकुलैककालः, प्रोत्तालफालोद्यतसिंहबालः? ॥६८(६९)॥ रथाङ्गरामानयनामृतद्युत्-सहस्रधारः किमु हेमकुम्भः? । तमीतमीनायककामकेली-हरं तृतीयं नु हरस्य चक्षुः ॥६९(७०)॥ किं वोदयाद्रेः कनकातपत्रं, शचीशदिक्कुण्डलमण्डनं वा । अहोऽथवा विश्वविभूषणस्य, 'रात्नं समुत्तेजनशाणचक्रम् ॥७०(७१)। राजीवराजीवरकोशमध्य-प्रबद्धलुब्धालिविमोचकौजाः ।। विश्वोपकारी करुणैकसिन्धुः, किमुद्गतो बालसरोजबन्धुः? ॥७१(७२)। इत्थं वितर्कावतरं कवीनां, प्राप्नोति यत्राऽतितरां विवस्वान् । तत्र प्रभाते सुकृतानुयाते, श्रीजित्प्रसादाद् बहुसातजाते ॥७२(७३)। विमुक्ततन्द्रैर्व्यवहारिचन्द्रैः, शास्त्रश्रुतिप्रेमरसातिसान्द्रैः । भोगोपभोगीकृतशालिभदै-रमुद्रमद्वैर्हदयेषु भद्रैः ।।७३(७४)। . लक्ष्मीकुलागारतया समुद्रैः, कराङ्गुलिभ्राजिहिरण्यमुद्रैः । महेभ्यसभ्यप्रवरप्रभायां, शुश्रूषुलोकोत्करसत्सभायाम् ॥७४(७५)॥ सञ्चारिणीभिः स्मरदैवतस्य, साक्षादिवाऽऽरात्रिकदीपिकाभिः । कुम्भस्तनीभिह्मणुकोदरीभिः, श्रिया रति-प्रीतिसहोदरीभिः ।।७५(७६)॥ लोलेक्षणाभिर्ललिताङ्गनत्या, सत्यापितस्वस्तिकमण्डनायाम् । पिकानुकारिस्वरशालिनीभिः, प्रणीतगीतप्रवरक्रियायाम् ॥७६(७७)। १. मणीमयोत्तेजन० पाठां. ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy