SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ . अनुसन्धान-६४ .. भवेद् यदीया सुषमा धुगर्व-सर्वस्वसर्वङ्कषकान्तिकान्ता । केनोपमेया न यदारकूट, सुवर्णकूटस्य तुलां लभेत ॥५१(५२)॥ सभ्या महेभ्याश्च वसन्ति यत्र, महौजसो मानधनाश्च केचित् । यशोऽर्थमर्थिष्वथ कल्पवृक्ष-सदृक्षपक्षप्रतिबद्धकक्षाः ॥५२(५३)॥ कदाग्रहग्रस्ततयाऽतिमूढा व्यूढाभिमानाश्च महत्तमत्वात् । केचित् पुनर्भूमिपतेः प्रसादा-दाप्तप्रतिष्ठा अपि शिष्टभावाः ॥५३(५४)। युगलम् ।। विचित्रशास्त्रार्थविचारसार-पयोधिपारीकृतधीतरण्डाः । ... स्फुरन्ति यत्राऽर्हतधर्मधुर्याः, सम्यक्त्वरत्नस्थितिसत्करण्डाः ॥५४(५५)। संवेगरङ्गोल्लसदन्तरङ्गो-त्कर्षप्रकरिव कीलिताङ्ग्यः । काश्चित् तु सर्वर्षिजने समस्या-मात्रादपि प्रोज्झितसन्नमस्याः ॥५५(५६)। अन्यास्तु सन्यायपथानुषक्ताः, परम्पराप्तर्षिजनानुरक्ताः । सदा सदाचारविधिप्रसक्ताः, श्राद्ध्यः समग्रा गुरुपट्टभक्ताः ॥५६(५७)॥ ॥ त्रिभिरेकोऽर्थसम्बन्धः ॥ तत्र च - श्रद्धालुमुख्यस्तु सुजाणसिंहः, श्राद्धीष्वथो साहिमती प्रतीता। आप्तौ तयोरत्यधिकारिभृत्यौ, दीपा-ऽचलाख्यौ बलिभोक्तृभाटौ ॥५७(५८)॥ यस्मिन्नयं सङ्घतरुश्चतुर्भि-र्मूलैर्मुनीनां प्रति पूर्वकूलैः । मानोच्चचूलैः फलवद्दलैश्च, चलैर्दुकूलैरिव वैजयन्तः ॥५८(५९)। मुक्तामय-गुणशालि-प्रवरस्त्रीपुंसरत्नरुचिरुचिरात् । भारतभूश्रीहृदया-भरणात् तस्मादुदयपुरतः ॥५९(६०)॥ विनयावनम्रकायः, प्रणयसहायश्च भक्तिनिरपायः । . प्राय: प्रोज्झितमायः, प्राप्तश्रीजित्पदच्छायः ॥६०(६१)। सकलविधेयजनौघ-किञ्चित्करकिङ्करप्रकरमुख्यः । अप्यात्मीयतया श्री-गुरुभिरनुग्रहदृशा स्पृष्टः ॥६१(६२)॥ उल्लसितपुलकशोभा-सम्भावितवपुःप्रपुष्टिसंसृष्टिः । हृष्टमना घृष्टाद्भुत-गुरुगोत्रपवित्रवाग्वक्त्रः ॥६२(६३)। भालस्थलभूषायित-संयोजितपाणिविलसदरविन्दः । श्रीजिद्ध्यानविधाना-वधानमेदुरतरानन्दः ॥६४(६४)॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy