SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ अथ श्रीपरमगुरुराजचरणकमलपवित्रीकृतदेश-नगरवर्णनम् ॥ देशः स एवाऽस्तु शुभप्रदेशः, श्रेय:श्रियो(यः) सुस्थिरसन्निवेशः । यस्मिन् गणोत्तंसगुरुप्रवेश-प्रभावतो नास्त्यशुभस्य लेशः ॥१७॥ भूसुभ्रवः केचन यत्र तुङ्ग-स्तनेन्दिरामाकलयन्ति शैलाः । नितम्बबिम्बश्रियमाश्रयन्ते, केपि स्फुरन्निर्जरमेखलाङ्काः ॥१८॥ यत्राऽस्खलन्तः सरिताप्रवाहा, गतावगाहाः परितः स्फुरन्ति । गिरां प्रवाहा इव रत्नसूरे-हारानुकाराः क्षितिनाय(यि)कायाः ॥१९॥ नृजन्मपावित्र्यकृतौ समर्था-न्यनेकतीर्थानि जयन्ति यत्र । यान्यैहिकामुष्मिकसाध्यसिद्धयो-र्योगात् प्रयान्ति प्रियमेलकत्वम् ॥२०॥ अनेकरम्भाः सुतिलोत्तमाश्च, निश्छद्मपद्माप्सरसोऽतिशस्याः । सश्रीफलाश्चारुहलिप्रियाश्च, वृषोपगच्छद्घननीलकण्ठाः ॥२१॥ स्फूर्जद्धरिस्फालकृतार्जुनीय-पक्षाः शिवाभियभयाभिरुग्राः । यस्मिन् वनान्ता मदनातिमुक्त-बाणा: प्रदेशा इव देवपुर्याः ॥२२॥ युगलम् ।। लूनाऽलकासीदलकातिगूढा, राजगृहं राजगृहं न चाऽपि । न वा विशालाऽपि गुणैविशाला, पुरी सुराणामपि भासुरा न ॥२३॥ चम्पानुकम्पाकुलचित्तवृत्ति-लङ्का तु शङ्कातुरतां गतैव । येषां पुरस्तान्नगराणि यत्रा-ऽनेकानि तादंशि दृशां सुखाय ॥२३(२४)। तेषु चजगत्त्रयीनायकराजधानी-सर्वस्वसारैरिव निर्मिता या । दिदृक्षुचक्षुःकृतभूरिलोभा, यत्राऽतुला सा वटपद्रशोभा ॥२४(२५)॥ वित्तैः कुबेरा अपि ये सुबेरा, दानप्रवाहाकरा इवेभाः । श्राद्धा विशुद्धाशयधर्मसक्ता, गुणानुरक्ता गुरुपट्टभक्ताः ॥२५(२६)। . श्यामाश्च गौर्यश्च तथाऽतिरक्ता, मुग्धाच्छवत्सैरनुगम्यमानाः । यत्राऽऽस्तिका:- पीनपयोधराग्य-शंङ्गयो मुनीनां किल कामगव्यः ॥२६(२७)। तत्र च देशे - ..सौवर्द्धिसंस्पर्द्धितनाकलोकं, लोकम्पृणोदारवचस्विलोकम् । सर्वोत्तमं वंशपुरं ह्यशोकं, दृष्टं प्रहृष्टं प्रकरोति नो कम्? ॥२७(२८)। १. 'शृङ्गा' पाठां. । . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy