________________
जुलाई - २०१४
विचारचतुरधर्मकर्मालङ्कर्माणकृतलक्षणलक्षणलक्षितलक्ष्मणपरिषद्यपरिषदि श्रीपञ्चमाङ्गसूत्रद्विगुणितपञ्चमाङ्गसूत्रवृत्त्यनुक्रमप्रथमद्वितीयमण्डलीमण्डनस्वपरसमयाभ्यसन
सोद्योगयोगोपधानोद्वाहन-माङ्गल्यमालारोपणा -ऽऽगमदेशितदेशविरतिदुर्ग्रहाभिग्रहाजिह्म-ब्रह्मव्रतसालापालापकोच्चारणा- दीनाऽसमर्थोद्धत्यादि सचातुरीतुरीयारकस्पर्द्धि सश्रेयः श्रेयः कार्यं समजंजनीत् समजंजनीति च । पर्यायोपस्थेष्ट श्रेष्ठसर्वपर्वशीर्षोष्णीषोपमश्रीसांवत्सरिकपर्वणि प्राय: प्रा (पा) पिष्ठप्राण्याचीर्णनिकृष्टकर्मवारणपटुपटहोद्घोषण-गुणिगन्धर्वजनोद्गीतसङ्गीतगीतसमाकर्णनोत्कर्णसकर्णसमाकीर्णश्रीजिनभवनसप्रभेदसर्वसार्वार्हणाकरण-मासार्द्धमासक्षपणाद्यनेकदुस्तपतप:प्रारम्भणाऽ हरहर ऽहमहमिकानैपुण्यपुण्यवन्निर्मितामितनवनवक्षणनवक्षणानल्पसङ्कल्पकल्पद्रुकल्प श्रीकल्पाध्ययनानुयोगोपक्रमण - नानापक्वपक्वान्नान्नादि [ ना] साधर्मिकसम्पोषण - मार्गणगणमार्गितार्थवितरणसन्तोषण - जयजयारवसुवासिनीधवलध्वनिविविधतूर्यनिर्घोषशब्दाद्वैतबधिरितब्रह्माण्डमण्डलाखण्डमहाडम्बरसहकृतसकलजिनभवनविचरणाद्यखर्वपर्वधर्मकर्म सशर्म प्रावरीवृतीत् श्रीमन्महनीयपादनामस्मरणकरणासाधारणाकारणाद् ।
८१
अपरं शुभवतां भवतां भवतान्तिभिदा (दां?) सुधीवराणां धीवराणां सपरिच्छदसौववपुःपाटवादिसूचकं कविकुलवर्णनीयानवद्यहृद्यपद्यगुम्फितं पार्वणं पत्रं प्राप्तं, प्रातिभप्रमाविषयीकृतं च तदन्तर्गर्भितप्रमेयपटलम् । किं चाऽस्माकं उ. श्रीविनीतविजयग., पं. रविवर्द्धनग., पं. धनविजयग., पं. जसविजयग., तत्त्वविजयादेरनुनति र्नतिर्वा समवसेया । तत्र प्राग् (क्) प्रान्त्यावाससमीपस्थायिनां वाच्या सकलसङ्घस्य धर्माशीश्चाऽस्मन्नामग्राहम् । श्रीजिनेन्द्रचन्द्राः प्रणाममहेशानमूर्द्धानमधिरोप्याः । विजयदशम्यामिति श्रेयः ॥ सं. १७१५(६) ॥
Jain Education International
-*―
For Personal & Private Use Only
www.jainelibrary.org