________________
८०
.
• अनुसन्धान-६४
यच्छीर्षसप्तस्फटदम्भतः किं, जैनं वचः सप्तनयीनिगूढम् । मन्ये नमल्लोकभयान्तकर्त, भूयिष्ठभूत्यै भवतात् स पावः ॥१०॥ . मुखेन्दुपीयूषरसैककुण्ड-रक्षाकृते किं सुचिरं फणीन्द्रः । यदीयशीर्षे विधिना न्यधायि, पार्श्वः प्रभावं प्रथयत्यसङ्ख्यम् ॥११॥ सत्तत्त्वकोटीश्वरताभिमाना-दूर्वीकृताः केतुपटाः स्फुरन्तः । . यस्य स्फटाटोपमिषेण जाने, पार्श्वः प्रभुः सिद्धिसमृद्धये स्तात् ॥१२॥ नीलद्युतो यस्य शिरःस्फटाग्र-मणीश्रियो नीरदवाईलान्तः । उद्गच्छदुष्णांशुरुचं दधन्त्यो, मुदं विदध्यादिह पार्श्वनाथः ॥१३॥ .. दूर्वाक्षतांश्चेदनिशं दधीत, दन्तत्विषाराजियदङ्गदीप्तेः । साम्यं तदाप्नोतु वृषोपदेशे, पार्श्वस्सदा मङ्गलमातनोतु ॥१४॥ .: यदीयशीर्षे स्फटरत्नभासः, समुच्छिखा विद्रुमकन्दलन्ति । .. सच्चित्रवल्ल्याः किमु पल्लवन्ति, जीव्याच्चिरं पार्श्वजिनो जगत्याम् ॥१५॥ . चराचरं विश्वमशेषमेवा-ऽमितं प्रमाति प्रतिबिम्ब(म्बि) यस्य । चित्रं चिदादर्शतले वलक्षे, सार्वश्चिदानन्दपदं प्रदद्यात् ||१६||
तं श्रीमन्तममन्दसम्मदकन्दप्रणमदमरनरवरस्फुरत्तरप्रकटमुकुटकुटनैकस्मणीयमणीनिस्सरन्मरीचिशुचिपयोनिचयप्रक्षालितक्रमकमलयमलं सकलकलाधरकरालोकलोकनोत्पन्नहर्षोत्कर्षसमुच्छलदतुच्छस्वच्छक्षीरनीरनिधिलोलकल्लोलप्रचण्डोदण्डडिण्डीरपिण्डपाण्डुरास्तोकश्लोककर्पूरपूरसुरभितविश्वविश्ववेश्मान्तरालं फलितफलिनीदलश्यामलकमलकोमलभगवत्कायकमनीयकान्तिकलापामृतकुण्डप्रतिमप्रतिबिम्बोपधिप्रतिदिनतीर्थस्नानकरणोद्भूतप्रभूतनैपुण्यपुण्यप्रचयातिशयसदासम्फुल्लितोतुङ्गरङ्गत्कङ्केल्लिसालं जाग्रत्प्रतापतापतापिताशेषसीमालभूपालाश्वसेनाश्वसेनरासनसेनोभयपक्षशुद्धवंशसरसमानससरोवरालङ्कारसारमरालबालं श्रीदादाभिधपार्श्वपरमेश्वरनन्दगोपालं प्रणामगोवर्द्धनगिरिशिखरलीलाविलासिनं निर्माय श्रीदेवकपत्तनात् श्रीविजयप्रभसूरिभिः सबहुमानमालाप्यते - ___ यथेहकार्यं प्रातः गगनैकमन्दिराभ्यन्तरावस्थानतरुणतेजस्विजनासहनीयविविधविरुद्धाचरणप्रवणनिशाधिराजसमग्राधिकारनैकखण्डीकरणविकुर्वितकोपाटोपारक्तसहस्रंकरनिकरे क्षपितनिपीतकरिकपोलमूलमदमत्तमधुकरनिकरसमतमोभरे सम्प्राप्तोदयगिरिशिखरसिंहासनाधिपत्येन्दिरे श्रीदिनकरमण्डले सति जीवाजीवादितत्त्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org