________________
जुलाई - २०१४
७९
प्रान्ते तेमना पूर्वपत्र मळ्यानी नोंध फरी, सहवर्ति साधुओना नामोल्लेखपूर्वक वन्दनादि निवेदन करी, सकल संघने धर्मलाभ जणावी, जिनेश्वर भगवन्तने वन्दना करवापूर्वक पत्र पूर्ण कर्यो छे.
प्रस्तुत ग्रन्थनी नकल अमने वडोदरा - हंसविजय जैन ज्ञानमन्दिर तरफथी प्राप्त थइ छे. ते बदल अमे संस्थाना व्यवस्थापकोनो आभार मानीए छीओ।
॥ सं. १७१६ ॥ ॥ ६०॥ .
स्वस्ति श्रियाऽसेवि यदमिपा, सदा प्रफुल्लं प्रणमत्रिलोकम् । लोकप्रियं पार्श्वजिनो जनानां, स पार्श्वपार्थो भवताद्धिताय ॥१॥ स्वस्तिश्रियो यस्य पदे पदेऽपि, प्रभोः प्रभावाद् भविनां भवन्ति । सद्भाग्ययोगादिव सम्पदस्त-मसेयवामेयजिनं श्रयामः ॥२॥ स्वस्तिश्रियो यमिह विश्रुतवर्णवादाः, कल्पद्रुमं प्रवरकल्पलता[मि]वोच्चम् । सच्चन्द्रिका इव निशाधिपति श्रयन्ते, भूयात् समीहितकृते स जिनो जनानाम् ॥३|| यत्पादपद्मं द्युतिदीप्यमानं निश्छद्मसौन्दर्यगुणैकसद्म ।। साक्षादसेवीत् कमला सदोषं, चन्द्रादिकस्थानमपास्य मङ्क्षु ॥४॥ यदीयपादं विगतप्रमादं, प्रसादपात्रं नतभव्यमात्रम् ।। अभीष्टमन्त्रं शिवसिद्धियन्त्रं, जना भजध्वं जनितप्रमोदम् ॥५॥ वचोऽमृतं यस्य निपीया भव्याः, प्रमोदभव्याःस्त्यक्तपराभिलाषाः । सन्तोऽमृतानन्दपदं श्रयन्ते, स्थानं तदेकस्मरणप्रवीणाः ॥६॥ यदीयपादद्वयसन्नखाली चकास्ति दीपावलिकेव दीप्रा ।। तमोपहायाऽङ्गभृतां समन्तात्, स आश्वसेनिर्जयताज्जिनेशः ॥७॥ यत्पादपद्मं नखदीप्तिदीप्तं, नमज्जनानामिव वह्निसाक्षम् । व्यनक्ति सिद्धिप्रमदाविवाहं, पायादपायाद् भविनः स पार्श्वः ॥८॥ यद्देहभासः परितः स्फुरन्त्यो, विभान्ति नम्राङ्गभृतां शिरस्सु । यवप्ररोहा विजयार्थिनां किं, पुष्णातु पार्श्वः प्रियमङ्गभाजाम् ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org