________________
जुलाई - २०१४
' तद् विज्ञ प्रागपि शिष्येण प्राभृतीचक्रे' इति वोत्तरार्द्धम् । वरिवर्त्ति समाधानं, समं च सङ्खेन मेऽत्र सर्वत्र । देव - 3
- गुरुनाममन्त्र - स्फुटसंस्मरणानुभागेन ॥१४॥ [ ॥५१॥] · पूर्वारम्भितभाणन-गुणनादिपराः शुभंयवः श्रमणाः । सर्वा अपि च श्रमणा, धर्मसमाराधनप्रवणाः ॥ १५॥ [ ॥५२॥] 'श्रीमत्प्रभुपादानां प्रसादतः सुप्रसादानाम्' इति वा । श्रीमद्भिस्तत्रत्यं स्ववपुः- परिवारसम्भवं श्रेयः । मदुचितकार्यादियुतं, ज्ञाप्यं मेऽत्र प्रमोदाय ||१६|| [ ॥५३॥] श्रीवन्द्यैस्तत्रत्यं
1
शिक्षोचितहितशिक्षा - युतं प्रसद्यं प्रसाद्य मे ||१७|| [ ॥५४॥] गुणगणमणिसिन्धूनां सन्मानसपद्मपद्मबन्धूनाम् । निष्कारणजगतीजन-बन्धूनां सर्वसाधूनाम् ॥१८॥ [ ॥५५॥] शीलादिगुणैरखिलैः, साध्वीनां तत्र सकलसाध्वीनाम् । ज्ञाप्याऽनुवन्दना मे, सानन्दप्रणयबहुमानम् ॥१९॥ [ ॥५६॥ ] अत्रत्या अपि यत्या-दयः समस्ताः सभक्तिसाध्व्यश्च ।
श्राद्धा श्राद्ध्यश्च सदा वन्दन्ते श्रीमतो भद्रम् ॥२०॥ श्री ॥ [॥५७॥]
*
*
*
गोष्ठ्यामुद्वेष्ट्यमानः सजलजलदवत् संवरश्रेणिमावि:कुर्वाणः पुण्यबद्धोन्नतिरतिनयनानन्ददानप्रवीणः । आशीर्वादः प्रसादात् प्रमदभरकरेन्दीवरश्यामवर्णश्चित्रं पङ्कापहारी प्रकटितसकलक्षोणिनानातपश्रीः ॥१॥ प्रसादाशीर्वादो द्विरदवदयं प्राप्त इह मे, प्रमोदाद्वे(द्वै)तायाऽजनि जनसमाजेन महता । स्फुटं नानादानप्रकटनपटुः श्रीगुरुकरप्रतिष्ठासम्प्राप्तः प्रवरबहुलोहैः परजयी ॥२॥ शिष्योपरि प्रभूणां हितवात्सल्यामृतप्रवाह इव । मूर्तिमदानन्द इवा-ऽऽन्तरप्रसादानुवाद इव ||३|| [ युग्मम् ]
Jain Education International
For Personal & Private Use Only
७७.
www.jainelibrary.org