SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ [श्रीआदिजिनस्तवनम्] पादाः पुष्णन्तु पुण्यानि, देवस्य प्रथमस्य वः । चक्रचापजुषां येषां, त्रिलोकी शरणं गता ॥१॥ देव! देवान्तरैः क्षिप्ता, निःस्ताघे भववारिधौ । त्वां क्षमाधरमालम्ब्य, यत् तरन्ति तदद्भुतम् ॥२॥ तमांसि भिन्दतो विश्व-विश्वत्रयगतान्यपि । सन्तापहरिणस्तुल्य-स्तिग्मरोचिः स ते कथम्? ॥३॥ अपारेऽस्मिन्नपारेऽपि, संसारारण्यवर्त्मनि । स्मरतस्त्वां कुतः पुंसः, स्मरतः सिंहतो भयम्? ॥४॥ नरा न राजशब्दस्य, पात्रं ते स्युः कदाचन । तवांऽहिकैरवे प्रीति, येषां गावो न कुर्वते ॥५॥ तामसे तामसेर्बन्धौ, यः पथीच्छां रुणद्धि सः । स्वप्नेऽपि नाथ! नाऽभ्येति, नरकं नरकम्पनम् ॥६।। पारकं विपदां भद्र-वारकन्दद्विषां तव ।। यः शृणोति वचः सम्प-दास्यं वास्यं स किं स्पृशेत्? ॥७॥ सातङ्कस्त्रिदिवस्याऽपि, सातं कलयति ध्रुवम् । त्वत्पथं यः परित्यज्य, श्रेयस्यति पथान्तरैः ॥८॥ प्रभावतस्त[त्व]दुक्तस्य, सिद्धान्तस्य प्रभावतः । निर्वाणसम्पदां धाम-धाम पश्यन्ति जन्तवः ॥९॥ वीक्ष्य(क्ष)ते जातु या नैव, सापदं विषयोत्सवम् । सा पदं वीक्ष्य ते देव!, दृष्टिः शाश्वतिकोदयम् ॥१०॥ शङ्के नु केन मुक्तेस्ते, कर्मणा स्पृहयालवः । न स्यन्ति ये तमस्काण्डं, नश्यन्ति च तवाऽध्वतः ॥११॥ पुण्यापुण्यक्षयाल्लभ्य-मसभ्यारम्भविद्विषः । देहिनः कर्मनिर्भेदि, देहि नः परमं पदम् ॥१२॥ रोमाञ्चपक्ष्मलतनुः कनकाभिराम!, चन्द्रांशुपुञ्जधवलं भवतो गुणौघम् । यः स्तौति संस्मरति गायति च त्रिसन्ध्यं, तत्र स्वयं भगवती समुपैति मुक्तिः ॥१३।। *** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy