SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ [श्रीसुमतिजिनस्तवनम्] एकमर्हन्तमस्ताघ-मनश्वरमकल्मषम् । अनामवा(क)मनाबाध-मनन्तं सुमतिं स्तुमः ॥१॥ रुचिर्न यस्य दुःकर्म-नाशने शासने तव । स्वर्गो(गा)पवर्गसाम्राज्ये, रुचिस्तस्य न तन्व(न्य)ते ॥२॥ पापीयसां ध्रुवं तेषां, विरोध: कृपया समम् । कृपैकरूपाद् ये देव!, पराञ्चस्तव दर्शनात् ॥३॥ कुटुम्बिभिरसंविग्नै-र्दैवतैः कामगर्दभैः । अज्ञातपरम[तत्त्वै]-र्वञ्चकैर्वञ्च्यते जनः ॥४॥ भूयांसो वञ्चका देवा-स्त्वमेकस्तु यथार्थवाक् । कियानेव ततो लोकः, परमार्थं विगाहते ॥५॥ महता पुण्यपु(प)ण्येन, प्राप्यते स भवान् भवान् । तत् पुनर्देव! सर्वस्य, किं नाम करगोचरः? ॥६॥ भास्वतो भा स्वतोऽप्येषा, प्रदोषे यस्य नश्यति । शाश्वतज्योतिषः सोऽयं, तपस्वी पुरतस्तव ॥७॥ याऽन्तिमेऽपि पदे नेतु-मलं विश्वत्रयीमपि । तां तवांऽहिद्वयीं प्राप्ता, यान्ति चेत् स्वः किमद्भुतम् ॥८॥ मानसं मानसम्पर्का-दनच्छमपि देहिनाम् । अच्छायते भवद्वाक्यैः, सलिलं कतकैरिव ॥९॥ आराधयति शुद्धात्मा, भवन्तं यो जगद्धितम् । पति लक्ष्मीरपास्तान्या, भवन्तं तं प्रतीक्ष्य(क्ष)ते ॥१०॥ विभवन्त: सकौटिल्या, ये तन्वन्ति शुभां क्रियाम् । न ते स्वप्नेऽपि लप्स्यन्ते, *** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy